Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकामवर्गनम] र्थानां ज्ञानार्थत्वात् विदन् पराऽभिप्राय जाननित्यर्थः। त्वं पुनः किंवि० ? 'रीभ्रंम ' इत्येकाक्षरवचनात् री:-भ्रान्तिः न रीः अरीः, सु-शोभनः, अरीः- निश्चयः, तं ईयते-गत्यर्थानां ज्ञानार्थत्वात् जानाति क्विपि श्वरीः 'विजा निच्छयसारा' इतिवचनात् सुनिश्चयज्ञातेत्यर्थः । चित्रत्वाद्विसर्गाभावः । 'ई' पादपूरणेऽव्ययः । स्वयमात्मनेत्यर्थः ॥१५॥ ज्ञानं वर्णयित्वा कामं वर्णयति परिग्रहारम्भमनास्तारये युः कथं परान । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥५६।। व्याख्या-इ-कामः, तस्य सम्बो हे ए-हे काम ! त्वं परान् -अन्यान् , परिग्रहाः-दाराः, तेषां आरम्भ-उपक्रमः, तत्र मग्नानिमग्नाः, तान्-परिग्रहारम्भमग्नान-दारोपक्रमनिमग्नान् कर्तुं कयं न ईश्वरोऽसि ? काक्वा ईश्वरोऽसीत्यर्थः, स्वयमात्मना । चित्रत्वादनुस्वाराभावः। त्वं किंवि० ? ता-श्रीः, तस्यां 'रुहं जन्मनी' तिवचनात् रूढो - जातः डप्रत्यये तारः-श्रीनन्दन इत्यर्थः । त्वं किंवि० ? ई- श्रीः स्वजननी, तद्वत् मान्यतया उ:-कृष्णो, यस्य स युः । तस्य लक्ष्मीवत् कृष्णोऽपि मान्य इत्यर्थः । त्वं पुनः किंवि० ? परः-प्रतिपक्षः, तथा 'मीम्श हिंसाया'मिति क्विपि मी:-हिंसकः, ईदृशः ईश्वरो-महादेवो विद्यते यस्येति स इन्प्रत्यये परमीश्वरी। त्वं पुनः किंवि० ? दानि-कलत्राणि, ऋ-भूः, तां यन्ति गच्छन्ति क्विपि रितो-मनुष्याः तेषां रा-दीप्तिर्यस्मात् स दरिद्रः ।।५६।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120