Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८
[शतार्थविवरणे दले लक्ष्म्यां वाण्या मिति नानाथरत्नमालावचनात् ई-बाग, तस्या ईश्वरः पतिः, स ईश्वरः-वागीश्वरः इत्यर्थः । ईश्वरीकतु-वागीश्वरीकतुं ईश्वरः प्राग्वत् । वागीश्वरः बृहस्पतितुल्येत्यर्थः। 'उ' इत्यामन्त्रणे । हे ये ! त्वं पुनः दरिद्रा न भवसीत्यर्थः । लक्ष्मीस्तु दीयमाना दरिद्रा भवतीत्यर्थः । 'दृश्यते त्वक्षयः कोशः साक्षाद् ब्राहम्या: न तु श्रियः' इतिवचनाद् न दरिद्रा भवसीत्यर्थः । कथमित्यव्ययः सम्भवे ॥५४॥
सरस्वती वर्णयित्वा तज्जन्यं ज्ञानं वर्णयतिपरिग्रहारम्भमनास्तारये युः कथं परान् । स्वयं दरिद्रो ! न ! परमीश्वरी कर्तुमीश्वरः ।।५५।।
व्याख्या-'नो बुद्धौ ज्ञानबन्धयो' रिति सुधाकलशवचनात नो-ज्ञानं, तस्य सम्बो० हे न-हे ज्ञान ! ताः-तस्कराः मुक्तिसुखधनाऽपहारकत्वात् कषायादयः, तेषां अरिः-प्रतिपक्षः विनाशकत्वात् , तस्य सम्वो० तारे ! ए ऐ हे हैवदामन्त्रणे। दानि-स्त्रियः, तथा 'ऋ पृथिव्या 'मितिमहीपवचनात् ऋ-भूः, तां यन्ति-गच्छन्ति क्विपि रितः - भूस्पृक्तया मनुष्याः, तेषां रुः - सूर्य: ' तृतीय लोचन ज्ञानं द्वितीयो हि दिवाकर' इतिवचनात् सूर्यतुल्यः, तस्य सम्बो० हे दरिद्रो ! त्वं परिग्रहारम्भमग्नान् परान-उत्कृष्टान् , कर्तु-निर्मातुं ईश्वरोऽसि-प्रभुरसीत्यर्थः । चित्रत्वादनुस्वाराभावः । त्वं किंवि० ? ' ई भुवि श्रियामिति महीपवचनात् ई-पृथिवी तस्या उ:-नेत्र 'तृतीयं लोचनं ज्ञान मितिवचनात् नेत्रतुल्य इत्यर्थः । स युः । त्वं किं कुर्वन् ? पर-अन्य, सु-अतिशयेन, अयन् गत्य
For Private And Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120