Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे
'स्वराः सम्बोधन-भर्त्सनानुकम्पा-पूरण-निषेधेषु' इति गणपाठ विवरणोक्तत्वात् । स्वयं कथं च किंवि० ? परं-प्रकृष्टमित्यर्थः ।।५।।
हरप्रियां व्यावर्ण्य हरिप्रियां वर्णयतिपरिग्रहारम्भमन्नास्ताऽऽरये युः कथं पराऽऽन् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ।।५२।।
व्याख्या-ई-लक्ष्मीः, आन्-कृष्णान्, आर-प्राप, कर्मणि पूज्यत्वात् बहुत्वम् । ई किंवि० ? परिग्रहो-धनधान्यादिः, आरम्भः -कृषिवाणिज्यादिः, तत्र भावे क्तप्रत्यये मग्नं-मज्जनं, यस्याः सकाशात् सा परिग्रहारम्भमग्ना| ई पुनः किंवि० ? अ:-कृष्णः, तस्मात् तद्वत् वा असीधातोः दीप्त्यर्थस्य क्विपि तथा तलि च अस्तादीप्तिर्यस्याः सा अस्ता। ई पुनः किंवि०? परा श्रेष्ठा, चकाराध्याहारात् पुनः या ई-लक्ष्मीः , परं-अन्यं, ईश्वरीकतुनायकीकर्तुं स्वयं-आत्मना, दरिद्रा न भवति-निर्धना न स्यात् । परं किंवि० ? कानां-जीवानां थो-भीत्राणं, यस्मात् सः कथः, तं कथं । यत्तदोनित्यसंबन्धात तस्याः ई-श्रोः, तया युक्तः ‘उकारः क्षत्रिये नेत्रे हरमौलौ हरे हरा' विति नानार्थरत्नमालावचनात् उ:-कृष्णः, सः यु:-श्रीकृष्णः ईश्वरः पतिर्वर्तते । 'उ' इत्यामन्त्रणेऽव्ययः ॥५२॥
परिग्रहारम्भमग्नास्ताऽऽरये ! युः कथं परान् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥५३॥ व्याख्या--या ता-लक्ष्मीः, परान्-अन्यान् परिग्रहो-दाराः धनधान्यादिर्वा, तथा आरम्भो-वधः कृष्यादिर्वा, तत्र मग्नाः,
For Private And Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120