Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५३ Acharya Shri Kailassagarsuri Gyanmandir [ शतार्थविवरणे · अः - कृष्णः, स इवाचरति शतरि अन् एकमूर्तियो देवा ब्रह्मा विष्णुर्महेश्वरः' इति वचनात् कृष्णतुल्य इत्यर्थः । त्वं पु० किंवि० १ ईश्वरी पार्वती तां ईयते - परस्त्रीगमनं त्यजेदित्यादौ गमनार्थानां सेवनार्थत्वात् सेवते क्विपि ईश्वरीः । चित्रत्वाद्विसर्गाभावः || ४९|| परिग्रहारम्भभग्नास्तारयेयुः कथं पराऽन । स्वयं दरिद्रो नपरमीश्वरीकर्तुमीश्वरः ॥५०॥ व्याख्या - ई - श्रीः, तया युक्तः उ:- शङ्करः स यु: - श्रीशङ्करः । ईश्वरस्य भार्या ईश्वरी - गौरी, तस्यां भवः कप्रत्यये स ईश्वरीकः, स चासौ ऋतु: स्त्रीधर्मश्च स ईश्वरीकर्तुः तं ईश्वरीकर्तुं - गौरीसत्कं स्त्रीधर्मं, रलयोरैक्यात् आल-विभूषयामास, अर्थात् सुरतादिक्रियया । ऋतुं किंभूतं ? परि - समन्तात्, ग्लायति इप्रत्यये रलयोरैक्ये परिग्ल ईदृशः हस्य - शङ्करस्य, आरम्भो -दर्पो यस्मात् सः, तं परिग्लहारम्भम् । यः पुनः किंवि ०१ दरिद्रः - निःस्वः, दरिद्रकुटुम्ब - कान्तर्गतत्वात् यतः - हलमनुवलस्यैकोऽनड्वान् हरस्य न लाङ्गलं, क्रमपरिमिताभूमिर्जिष्णोर्नगोर्न च लाङ्गलम् । प्रभवति नाद्याप्येषां कृषिद्वितीयगवं विना, जगति सकले नेहरा दृष्टं दरिद्रकुटुम्बक ||१२|| मिति । ऋतु किंवि० ? ' नकारो जिनपूज्ययो 'रितिविश्वलोचनतः नः- पूज्यः, तस्य मध्ये परः - प्रकृष्टः अगर्हणीयः इत्यर्थः तं परं । ऋतु पुनः किंवि० ? स्वस्य या - तनयरूपा लक्ष्मीर्यस्मात् तं स्वयम् । त्वं किंभूतः ? अकन्ते - कुटिलं गच्छन्ति क्विपि अकः- कुटिलगामित्वात वैरिणः तेषां नः पुनर्बन्धबुद्धयो' रित्येकाक्षरवचनात् नः-बन्धः, तदर्थं अः - कृष्णः, तं स्वनति - त्वं वैरिबन्धं कुरु इत्यादिरूपं वदति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120