Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे
परिग्रहारम्भमनास्तारये युः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥५७।।
व्याख्या-'ईश्वरः स्वामिनि शिवे मन्मथ' इत्यनेकार्थात् ईश्वरः -कामः, परिग्रहो:-दाराः, तेषां आरम्भस्तु वधदर्पयोरित्यनेकार्थात् आरम्भो-दर्पः तत्र मग्ना असते दीप्यते विपि आरम्भमग्नाः, ईदृशी तारा-कनीनिका, तया परिग्रहारम्भमग्नास्तारया-स्त्रीणां गर्वाश्रितदृष्ट्या, ई प्रत्यक्षे, परान्-अन्यान्, रलयोरेक्यात् पलान् मूर्खान् वा, ईश्वरः-कामो, विद्यते येषु ते ईश्वरिणः-कामिनः इत्यर्थः, ईश्वरीकर्तु-अकामिनः कामिनः कर्तुं स्वयं दरिद्रो-निःस्वो लक्षणया क्षीणो न भवति। परं केवलमित्यर्थः । ईश्वरः किंवि० ? ई-लक्ष्मीः, तस्या — उकारः क्षत्रिये नेत्रे' इति नानार्थरत्नमालातः उ:-नेत्रतुल्यः, पुत्रत्वात् यः स युः । कथमिति सम्भवेऽव्ययः॥५७।।
परिग्रहारम्भमग्नास्तारये युः कथं परान् । स्वयं दरिद्रो नपरमीश्वरीकर्तुमीश्वरः ॥५८॥
व्याख्या-ता-श्रीः, तस्यां रलयोरेक्यात् लयो-ध्यानविशेषो, यस्य सः तस्य सम्बो० हे तालय ! 'रः स्मर' इतिवचनात् रः-कामः, तस्य सम्बोव्हे र-हे काम ! त्वं ऊन्-शङ्करान् , 'ई' निषेधार्थेऽव्ययः, पल गतौ च । ततः ई पल-मा गच्छेत्यर्थः, कर्मणि बहुत्वं एकादशरुद्रग्रहणपरं, तत एकादश रुद्रानऽपि मा गच्छेत्यर्थः । रुद्रो हि तव प्रतिपक्षः । ततस्तत्र गते न कश्चिद् गुणो भविष्यतीति मा गच्छेत्युक्तमिति । ऊन् किंवि०? परि-सामस्त्येन,
For Private And Personal Use Only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120