Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीअनन्त-धर्मजिनवर्णनम् ] प्रापयन्नित्यर्थः । नपर' 'नो बुद्धी ज्ञान-बन्धयो' रितिवचनात् नेषु-ज्ञानेषु पर-उत्कृष्टं केवलज्ञानमित्यर्थः । नपर कि वि० ? 'कः सूर्यमित्रे' त्यादिसुधाकलशवचनात् कस्य - सूर्यस्य थो - भारः प्रकाशरूपो यत्र तत कथं । त्वं किंवि० ? ईश्वरः-प्रभुः, कर्तु-विधातुं काः प्रति ? स्वरीः । शसयोरैक्यात स्वः-स्वर्गः, तस्य ई:-लक्ष्मीः, चित्रत्वात विसर्गाभावः ॥२२॥
श्रीअनन्तं जिनं व्यावर्ण्य श्रीधर्मजिनं वर्णयतिपरिग्रहा रम्भ ! मग्नास्ताऽऽर येयुः कथं परान् । स्वयं दरिद्रोनपरमी श्वरीकर्तुमीश्वरः ॥२३||
व्याख्या-रस्य-रेफस्य अं--अकार', अवति-अवेर्हि सार्थत्वात् हिनस्ति-निवारयति क्विपि रोः, ईदृशः नपरशब्देन धकारः तथा मः-मकारः, तो विद्यते यस्य नाम्नि सः रोनपरमी । धर्म इति सिद्धम् । धो-धर्मनाथ इत्यर्थः । नः-नकारः, 'तथदधन' इत्यादिवर्णक्रमे पर-उत्तरो यस्य सः नपरः-धकारः इत्यर्थः । 'ऋ पृथिव्यां देवमातरी 'ति महीपवचनात् ऋ:-भूमिस्तस्यां अं-परमब्रह्म, तेन भातीति डप्रत्यये रम्भो-जिनः, तस्य सम्बो हे रम्भ-हे जिन ! । त्वं रल बोरक्यात् पलान्-मूर्खान् जनान, आल-निवारय । त्वं कि वि० ? परिग्रहेण-परिकरण, असते-दीप्यते क्विाप परिग्रहाः । त्वं पुनः कि वि०? मग्नं, भावे क्तप्रत्यये मजनं-स्नानं, उपलक्षणत्वात पूजावन्दनादिः, तस्मान आं-लक्ष्मी, स्तनति-सेवकानां 'दर्शनाद्दरितध्वंसी चन्दनाद्वाछितप्रद' इत्यादिवचनाद् ददाति विपि मग्नास्ता । त्वं पुनः किवि ? यां-श्रियं ईयते-गच्छति क्विपि यः । अथवा यो
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120