Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे
वातस्तद्वत् ईयते-अप्रतिबद्धत्वात विहरतीति क्विपि यः । तथा इ:-कामस्तत्र उ:-शङ्करः, दाहकत्वात् सः युः, ये श्चासौ युश्च येयुः । पुनः त्वं कि कुर्वन् ? सु-अतिशयेन 'अयञ् गतो' शतरि अयन्गत्यर्थानां ज्ञानार्थत्वात् जानन्-पश्यन्नित्यर्थः । किमित्याह-कः सूर्य-मित्र-वाय्वग्नि-ब्रह्मात्म-यम-केकि ' वितिवचनात् काः-आत्मानो जीवाः इत्यर्थः। तथा था:- भूधराः मेर्वादयः, समाहारे कथं । एतावता जीवादिषदार्थ मेर्वादिस्वरूपं च यः स्वयन्-अतिशयेन जानन्नित्यर्थः । ऋन्-रत्नप्रभादिपृथ्वीः एति-गत्यर्थानां ज्ञानार्थत्वात् जानातीति क्विंपि रित् । त्वं पुनः किंवि० १ रीमे' इत्येकाक्षरवचनात् न विद्यते रीन्तिर्येषां ते अरयः-केलिनः, शु-शोभना अरयः श्वरयः, श्ररीकर्तु-अकेवलिनः केवलिनः कर्तुं वा ईश्वरः-प्रभुः । यतः त्वं श्वरीकर्तु-प्राज्ञीकर्तु ईश्वरः, ततः पलान्-मूर्खान् जनान् निवारयेति युक्तोऽयमर्थः ॥२३॥ परिग्रहारम्भग्नास्तारयेयुः क ! थं पराऽन् । स्वयंद ! रिद्रोनप ! रमीश्वरी कर्तुमीश्वरः । २४॥
व्याख्या-ता-श्रीः, तया असते-दीप्यते क्विपि ताः, ईदशः 'रः कामे, तीक्ष्णे वैश्वानरे नरे । रामे वने च शब्दे'इति सुधाकलशवचनात् रो-वनं यस्य तस्य सम्बो० हे तार ! वनलाञ्छनत्वात् हे धर्म ! हे क-मित्र ! । पः-प्रौढः, रो-देशनाध्वनिर्यस्य तस्य सम्बो हे पर ! । स्वं-अर्थ, ई-कामं, अं-परब्रह्म ददाति डप्रत्यये स्वयंदःअर्थ-काम-धर्मद इत्यर्थः, तस्य सम्बो हे स्वयंद! । 'रः कामे' इतिवचनात् र:-कामस्तस्याऽपत्यं रि:-प्रद्युम्नः रूपादिना, तथा नणयोरैक्यात द्रोणाः-काकाः, तद्वत स्वकुलपोषकत्वेन पाति-रक्षति इप्रत्यये
For Private And Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120