Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनेन्द्रध्वनिवर्णनम् ] केवलं 'ईश्वरः स्वामिनि शिवे मन्मथ' इत्यनेकार्थात् ' ईश्वरःकामो विद्यतेऽस्मिन्निति ईश्वरी-कामी सराग इत्यर्थः । स च ईश्वरः-जगतां नाथः, कथं स्यात् ? अपि तु न स्यादित्यर्थः । अत्रैकत्वं जातेरेकत्वविवक्षयो । कोऽर्थः ? ये च स्वयमेव निःपरिग्रहा जाताः तथा च जितकामाः । हे भव्य ! त्वं तान्-तीर्थकरान् ब्रहीत्यर्थः । परिग्रहारम्भं किंवि० ? ई-लक्ष्मीः, तस्याः ‘कर्तुः कर्मकर' इत्युणादिवचनात् कर्तुः-कर्मकर इत्यर्थः, तं ईकर्तुम् ॥३५॥
अर्थद्वयेन सर्वजिनान् व्यावर्ण्य तदीयध्वनि वर्णयति-- परिग्रहारम्भमग्नास्तार ! ये युः कथं पराऽऽन । ख ! यं दरिद्रो न ! परमीश्वरी कर्तुमीश्वरः ॥३६॥
व्याख्या-परि-समन्तात् , ' नक्षत्रं तारकाः तारा ज्योतिषीभमुडु ग्रह ' इत्यभिधानचिन्तामणिवचनात् ग्रहाः-तारकाः यस्य स परिग्रहः-चन्द्रः, उपलक्षणत्वात् सूर्यादयः । तथा आ-समीपे, रम्भाइन्द्राणी येषां ते आरम्भा-इन्द्राः, तेषां यत् मग्नं-भावे क्तप्रत्यये मज्जन स्नान जन्माभिषेकरूप', तेन असन्ते-दीप्यन्ते स्विपि परिग्रहारम्भमग्नासः तीर्थकराः, इन्द्रनिर्मितजन्माभिषेकत्वात् तेषां 'तारोऽत्युच्चैध नि'रित्यभिधानचिन्तामणिवचनात् तारः-उच्चैर्ध्वनिः, तस्य सम्बो. हे परिग्रहारम्भमग्नास्तार !। पं-मुक्तिरूप-पन्थानं, राति-ददाति डप्रत्यये परः, तस्य सम्बो० हे पर !। सु-शोभना आ-लक्ष्मीर्यस्मात् स स्वः, तस्य सम्बो० हे स्व ! । 'नकारो जिनपूज्ययो'रितिविश्वलोचनतः हे न-हे पूज्य ! त्वं 'अः कृष्ण' इति वचनात् आन्-वासुदेवान , उपलक्षणत्वात् बलदेववक्रि
For Private And Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120