Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसाधु-ब्रह्मवर्णनम् ] धनधान्यादिरूपा श्रीर्यस्य सः अनः, तस्य सम्बो० हे अन-हे निर्ग्रन्थ ! भवान् ईश्च आ-च ये कामलक्ष्म्यौ तथा रलयोरैक्यात् 'पलिः संस्त्याय' इत्युणादिवचनात् पलिः-संस्त्यायः, ग्रहो-ग्रहणं परकीयवस्तूनां आदानं, तथा रलयोरैक्यात 'आलः स्यादनर्थहरितालयो' रित्यनेकार्थान् आल:-अनर्थहेतुः हिंसालीकादिः, समाहारे पलिग्रहालं तन 'अली भूषा-(पर्याप्ति ) निवारणेषु' इति वचनात् परोक्षायां आल--निषेधयामास । कोऽर्थः ? यः पलिग्रहाल तथा चकाराऽध्याहारात ये-कामलक्ष्म्यौ निषेधयामास इत्यन्वयः । अर्थार्थः संस्त्यायनिषेधात् अनगार इत्यर्थः, परकीयग्रहणनिषेधात् तृतीयमहाव्रतोचारः,
आलनिषेधात् प्रथमद्वितीयमहाव्रतोच्चारः, ये इत्यनेन कामलक्ष्मीनिषेधात तुर्यपञ्चममहाव्रतोचारश्चेत्येवं पञ्चाश्रवनिषेधेन महाव्रताङ्गीकरणेन च साधुगुणवर्णनेन साधुवर्णनमिति । भवान् किं कुर्वन् ? युः-श्रीयुक्तवृथिव्याः, कं-सुखं, थो-भीत्राणं, समाहारे कथंसुखभीत्राणं, 'राङ्क दाने' शतरि रान्-दददित्यर्थः। भवान् पुनः किं कुर्वन् ? परं-श्रेष्ठं यत्तना यथा स्यात्तथा 'इक गतौ' शतरि यन् -विहरन्नित्यर्थः। भवान् किंवि० ? दरो-भयं विद्यतेऽस्मिन्निति दरी-भयवान् चकित इत्यर्थः, तद्वत् संसारभयचकितत्वात् द्रमतिगच्छति डप्रत्यये दरिद्रः-संसारभयचकित इत्यर्थः। भवान् पुनः किंवि० १ ईश्वरी-पार्वती, तस्याः ‘कर्तुः-कर्मकर' इत्युणादिवचनात् कर्तवः-कर्मकराः अतिभक्तत्वात् सेवकाः अन्ययूथिकाः इत्यर्थः, तान् ‘नो मे कप्पइ अज्जपमिइं अन्नउत्थिए' इत्यादिवचनात मिथ्यात्वहेतुत्वात् मीनाति-निवारयति क्विपि ईश्वरीकर्तुमी:
For Private And Personal Use Only

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120