Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे प-हे पवन ! अप्रतिबद्धविहारित्वात् 'रवि-पवणसमो जतो साहू' इतिवचनात् हे साधो ! भवान् रलयोरैक्यात् आलये-गृहे गृहवासे, न आस्त-नाऽतिष्ठत् । भवान् किंवि० ? अजति-गच्छति विहरतीतियावत्, न पुनरेकत्र स्थाने तिष्ठति स क्विपि अग्-स्थाने २ विहारकृदित्यर्थः। किं कुर्वाण ? इत्याह-कानां-जीवानां, इह बहुत्वनिर्देशात् सर्वजीवानां वहनिवायुनीराणां वा, थो-भीत्राणं यस्मात् यत्र वा स कथः-संयमः, सर्वजीवाऽभयदानहेतुत्वात् , तं कथं-संयम ‘राङ्क दाने क्वचिदादानेपी ति वचनात् शतृप्रत्यये रान्आददानः स्वीकुर्वाण इत्यर्थः। भवान् पुनः किंवि ? स्वस्मिन् याति डप्रत्यये स्वयं-आत्मगं आत्मगतमित्यर्थः । दानि-कलत्राणि, तथा रायो-द्रव्याणि, समाहारे दरि-कलत्रद्रव्याणि 'परो दूरान्यश्रेष्ठशत्रु' विति वचनात् परं-दूरं कर्तु-विधातुं ईश्वरः-प्रभुः । दरि किंवि० ? परिग्रहो-धनधान्यादिभेदान्नवविधः, तस्य आरम्भउपक्रमो, यस्मात् तत् परिग्रहारम्भं । एवं सर्वाण्येतानि विशेषणानि साधावेव सम्भवन्ति, ततः स साधुरेव सम्भवति, न चान्य इति पञ्चपरमेष्ठिवर्णनम् ।।४४॥
परिग्रहारम्भमग्नास्तार ये युः कथं प! रान् । स्त्र ! यं दरिद्रोऽन ! परमीश्वरीकर्तुमीश्वरः ॥४५॥
व्याख्या-भेषु-नक्षत्रेषु, मग्न आस्ते-तिष्ठति क्विपि भमग्नाःचन्द्रः, तद्वत् ता-सौम्यत्वादिनीर्यस्य सः भमग्नास्तः, तस्य सम्वो० हे भमग्नास्त ! हे प-हे प्रौढ ! तथा सु-शोभना, आ-लक्ष्मीर्यस्मात् सेवकानां स स्वः, तस्य सम्बो० हे स्व ! । तथा न विद्यते आ
For Private And Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120