Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१
श्रीविष्णुवर्णनम्] स इवाचरति शतरि स्वयन् ‘एकमूर्तिः त्रयो देवा ब्रह्मा विष्णुमहेश्वर' इतिवचनात् स्वयम्-विष्णुरिवाचरन्नित्यर्थः । पुनः त्वं किंवि० ? दरिद्राः-निःस्वाः, तथा ऊनाः – कुटुम्बाद्यऽपरिपूर्णाः, तेषां मध्ये परः-उत्कृष्टः, सर्वथा दरिद्रः सर्वथा ऊनश्च तं दरिद्रोनपरं नरं ईश्वरीकर्तु-अधिपतीकर्तुं ईश्वरः-प्रभुः, अचिन्त्यशक्तित्वात् । कथमित्यव्ययः सम्भवे ॥४६॥ ब्रह्माणं व्यावर्ण्य विष्णुं वर्णयति । परिग्रहारम्भमग्नाऽऽस्ताऽऽर ये युः कथं परान । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥४७||
व्याख्या-'परिभूमि रित्युणादिवचनात् परिः-पयोनिधिनिमग्ना पृथ्वी, तस्याः ग्रहः - ग्रहणं समुद्रात् उद्धरणमितियावत् , तस्य य आरम्भ-उद्यमः, तत्र मग्नः-सज्जस्तस्य सम्बो० हे परिग्रहारम्भमम !। हे अ-कृष्ण ! । आ-समन्तात् असते-दीप्यते गच्छति क्विपि आ ईदृशी ता-लक्ष्मीर्यस्य तस्य सम्बो० हे आस्त ! भवान् ‘प्रतिपक्षः परो रिपु' रित्यभिधानचिन्तामणिवचनात् परान्-प्रतिपक्षान् कंसादीन् “यो वातयशसोः पुंसी'तिविश्वलोचनः । ये-यशोनिमित्तात् 'कर्मयोगे सप्तमी तिवचनात् , स्वयं-आत्मना, रलयोरैक्यात् 'अली भूषापर्याप्तिनिवारणेषु' इति परोक्षे आल-निवारयामास, केनसुखेन, कस्यात्मनो वा, थो-भीत्राण यथा स्यात्तथा । कथमिति क्रियाविशेषणम् । भवान् किंवि० ? पर-अन्य, ईश्वरीकर्तु न दरिद्रः, श्रीपतित्वात् । पुनः भवान् किंवि० ? ई-श्रीः, तस्या ईश्वरःपतिः, सन्धौ कृते ईश्वरः । पुनः भवान् किंवि०? युः। इ-श्रीः, तया
For Private And Personal Use Only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120