Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
[शतार्थविवरणे ग्रहो-ग्रहणं, अथवा पलिवुद्धिः, तस्या ग्रहो-ग्रहणं धीगुणः, उपलक्षणत्वात् धारणाहापाहादयोऽपि धीगुणाः, तेषां आरम्भउपक्रमः, तत्र मग्न-आस्ते यः स परिग्रहारम्भमग्नाः । त्वं पुनः किंवि० ? ता-अष्टविधा गणिसम्पत् , कविसमये लक्ष्मीसम्पदोरेकार्थत्वात् , तया राजते डप्रत्यये तारः । त्वं पुनः किंवि०? एर्विष्णुः तथा ई-श्रीः, तया युक्तः उ:-शङ्करः, तयोः कथा-वक्तव्यता यत्र तत् एयुकथ-भागवतादिशास्त्रं तत् 'अयञ् गतौ' शतृप्रत्यये अयन् 'गत्या ज्ञानार्था' इतिवचनात् जानन्नित्यर्थः। सु-अतिशयेन, अयन्-वयन् , स्वसमयवत् परसमयमपि वेत्तीतिभावः । चित्रत्वात् विसर्गाभावः । त्वं पुनः किंवि० ? ‘रो ध्वना 'वित्येकाक्षरवचनात् र:-शब्दः, तस्य कारणमप्युपचारात् व्याकरणादिशास्त्रमपि रः, तं 'माङ्क मानशब्दयो 'रिति मिमते-पठन्ति डप्रत्यये रमाः-शब्दशास्त्रादिपाठकाः शिष्या इत्यर्थः, ते विद्यन्तेऽस्येति सः रमी ॥४२॥
श्रीउपाध्यायं व्यावर्ण्य अर्थत्रयेण श्रीसाधू वर्णयतिपरिग्रहारम्भमग्नास्तारये युः कथं प! रान् । स्व! यं दरिद्रो नपरमी श्वरीकर्तुमीश्वरः ॥४३॥
व्याख्या-सु-शोभना, आ-श्रीर्यस्मात् सः स्वः, तम्य सम्बो० हे स्व !। परिग्रहा-दाराः, तथा 'आरम्भो वधदर्पयो' रित्यनेकार्थात् आरम्भः-षड्जीवनिकायवधः, भावे क्तप्रत्यये मग्नं-मजनं स्नानमित्यर्थः, तद्वत् अस्त:-क्षिप्तः, लक्षणया त्यक्तः, रलयोरैक्यात् आलयो-गृहं येन स परिग्रहारम्भमग्नास्तालय 'इ' इत्यामन्त्रणेऽव्ययः । हे प-हे प्रौढ ! त्वं युः-श्रीपृथिव्याः कं-सुखं, थो
For Private And Personal Use Only

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120