Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवीर-सर्वजिनवर्णनम] भीमसेनवत् ‘तेलुग्वे 'ति सूत्रेण पूर्वपदलोपे ताल:-मनस्तालः पार्वतीसिंहः, तद्वत् यातीति तालयः-सिंहः, तं ईयते-गच्छति किंपि तालयेः। तथा इ:-कामस्तत्र उ:-शङ्करः, स युः, ततः कर्मधारये तालयेयुः। पुनः त्वं किंवि०? यन् 'ईणक गतौ' शतरि यन्-विहरन् क-आत्मा, तस्य थो-भीत्राणं (यत्र तत्) यथा स्यात्तथा, कथमिति क्रियाविशेषणम् । पुनः त्वं किं० ? अन् - गरुड इवाचरन् देहदीप्त्या । त्वं किं० ? युः। ई-भूमिः, तत्र उ:-शङ्करः । त्वं पुनः किं० ? ऋतुः-स्त्रीरजः, तं मीनाति-हिनस्ति बध्नातीति यावत् क्विपि ऋतुसमये स्त्रीणां कामसेवनात् ऋतुबन्धो भवतीति ऋतुमीः, ऋतुमीः स चासौ इ:-कामश्च ऋतुमीः, तत्र ईश्वरः-शङ्करः स ऋतुमीश्वरः 'इ' इत्यामन्त्रणे ॥३३॥ परिग्रहारम्भमग्नास्तारये युः कथं परान् । स्वयं दरिद्रोन ! परमीश्वरीकर्तुमीश्वरः ॥३४॥ व्याख्या--'इ' इत्यामन्त्रणे 'परिभूमि रित्युणादिवचनात् परिः-समवसृतिभूमिः, तस्यां ग्रहाः-आदित्यादयो यस्य सः परिग्रहः, तस्य सम्बो० हे परिग्रह ! 'दरिल्लरिमञ्जरिः पुञ्जिभेरी' त्यादिलिङ्गानुशासनात् दरिषु-कन्दरेषु द्राति-शेते डप्रत्यये दरिद्रः-गुहाशायित्वात् सिंहः, तस्य स्वलाञ्छनगतस्य ऊः- रक्षणं, तेन ततो वा 'नकारो जिनपूज्ययो 'रिति विश्वलोचनतः नः-पूज्यः, तस्य सम्बो० हे दरिद्रोन ! भवान् ई-श्रीः, तया या-विभूत्या 'आरम्भो वधदर्पयो 'रित्यनेकार्थवचनात् आरम्भं-दर्प गएँ, न आर- न प्राप । भवान् किंवि० ? ई-श्रीः, तया युक्ता 'ऋ पृथिव्यां देवमातरी 'ति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120