Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ [ शतार्थविवरणे ईदृशी ता - केवलश्रीः तया असते- दीप्यते क्विपि रम्भमग्नास्ताः 'इ' इत्यामन्त्रणे ||३२|| श्रीपार्श्व व्यावर्ण्य श्रीवीरं वर्णयति परिग्रहारम्भमग्नास्तारयेयुः कथं पराऽन । स्व यं दरिद्रोनप ! रमीश्वरीकर्तुमीश्वरः ॥ ३३ ॥ , व्याख्या- - रः - रकारः, तथा न विद्यते मीवर्णो यत्र सः, अमीः यः शू - शकारः तथा व्-वकारः, इतरेतरद्वन्द्वे रमीश्रः तेषु यथाक्रमं अं - अकारं री-रीकार, ई-ईकार, कैगैरे शब्दे इति कायति- वदति प्रत्यये रमीश्वरीकः । एतावता श्रीवीर इतिसिद्धम् । तस्य सम्बो० हे रमीश्वरीक हे श्रीवीर ! । पः-प्रौढो, रो- देशनाध्वनिर्यस्य तस्य सम्बो० हे पर ! दरिद्रान् निःस्वान् तथा उर्दया, तया ऊनान् -रहितान् चण्डकौशिकादीन् पाति-रक्षति डप्रत्यये दरिद्रोनपः, तस्य सम्बो० हे दरिद्रोनप ! त्वं स्वः - स्वकीय इवाचरति स्वति, तस्य पञ्चम्या हौ स्व-स्वकीय इव आचरेत्यर्थः । त्वं किंभूतः ? ' परिभूमि 'रित्युणादिवचनात् परि:- समवसरणभूमिः, तस्यां परिसमन्तात् वा 'नक्षत्रं तारका तारा ज्योतिषी भमुडु ग्रह ' इत्यभिधानचिन्तामणिवचनात् ग्रहा - नक्षत्राणि तेषु तैर्वा असते- दीप्यते क्विपि ग्रहाः-चन्द्रः । तथा चित्रत्वात् अनुस्वाराभावः ! 'रः - तीक्ष्णे ' इति वचनात् रा- तीक्ष्णा भा दीप्तिर्यस्य सः रभः - तीक्ष्णांशुत्वात् सूर्यः, तयोर्मग्ना - निमग्ना, आ - श्रीर्यत्र सः परिग्रहारम्भमग्नाः । अनेन भगवतो वन्दनार्थं शशिभास्करौ समागताविति सूचितम्। त्वं पुनः किं० ? तस्याः ' सिंहो मनस्ताल' इतिवचनात् रलयोरैक्यात् भीमो For Private And Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120