Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[शतार्थविवरणे
परिग्रहारम्भमग्नास्ता रये युः कथं पराऽन् । स्वयंद ! रिद्रो न परमीश्वरी कर्तुमीश्वरः ।।३१।।
व्याख्या--पः-प्रौढश्चासौ रो-नरश्चेति परः, तस्य सम्बो० हे पर-हे प्रौढनर ! उत्तमपुरुषत्वात् । सु-अतिशयेन, 'भवेदेर्विष्णु'रित्येकाक्षरवचनात् ए:-विष्णुः, तं स्वबलेन क्रीडासमये अन्दतिबध्नाति स स्वयन्दः, तस्य सम्बो० हे स्वयन्द ! परिग्रहे-परिवारे अ:-कृष्णो यस्य तस्य सम्बो० हे परिग्रहा! । अथवा परिग्रहः-कलत्रं, आ-लक्ष्मीर्यस्य स परिग्रहाः, ईदृशः अ:-कृष्णः, तस्य ‘आरम्भो वधदर्पयो रित्यनेकार्थवचनात् आरम्भः-दर्पः बलप्रभवः, तं परिग्रहारम्भं लक्ष्मीकलत्रस्य कृष्णस्य बलं 'परो दूरान्यश्रेष्ठशत्रु'ष्वितिवचनात् परं-दूरं, कर्तु-विधातुं, त्वं ईश्वरः-प्रभुरसि । त्वं किंवि० ? अकं-दुःखं करोति णिजि क्विपि अग्-दुःखकृत्, ईदृशः ‘नो बुद्धौ ज्ञानबन्धयो 'रितिवचनात् नो-बन्धः कर्मरूपरतं अस्यति-क्षिपति किपि अग्नाः-दुःखकारिकर्मबन्धक्षेषक ईदृशः ता-लक्ष्मीः, तया युक्तः अ:-कृष्णो यस्मात् सः अग्नास्ताः । त्वं पुनः किंवि० ? रयादीप्त्या, अ-कृष्णः, स इवाचरति शतरि अन्–कान्त्या कृष्णतुल्यः, कृष्णवर्णत्वात् । त्वं पुनः किंवि० ? युः । इ:-कामः, तत्र :शङ्करः, दाहकत्वात् । पुनः किंवि० ? ऋः-देवमाता ता स्वमातृत्वात् 'इङ्क स्मरणे' इति वचनात् यन्ति-स्मरन्ति क्विपि रितो-देवास्तैराजते डप्रत्यये रिद्रः । त्वं पुनः किंवि० ? ई-श्रीः, तस्या ईश्वरःपतिः यः स ईश्वरः-कृष्णः जिनभक्तनृपा विद्यते यस्य स ईश्वरी । 'इ' इत्यामन्त्रणेऽव्ययः ॥३१॥
श्रीनेमिजिनं व्यावर्ण्य श्रीपार्श्वजिनं वर्णयति
For Private And Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120