Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ शतार्थविवरणे
परिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो नपरमीश्वरी कर्तुमीश्वरः ॥२९||
व्याख्या-ता-पङ्क्तिरथन्यायात् पद्मा जिनजननी, तस्यां रूढोजातः 'रूहं जन्मनीतिवचनात् डप्रत्यये तारः-सुव्रतजिन इत्यर्थः, सः कं सुखं वीतरागत्वप्रभवं, थो-भीत्राणं मोहनीयकर्मजयसमुद्भवा निर्भयतेत्यर्थः, समाहारे कथं तत् । परिग्रहः स्वपरिवारः, तत्र
आरम्भ-उपक्रमो यस्य तत् परिग्रहारम्भं कथं कर्तुं ईश्वरोऽस्तिप्रभुरस्ति । कथं कि वि० ? स्वम्मिन् याति डप्रत्यये स्वयं-आत्मगमित्यर्थः । स्वयं-आत्मगं सुखं निर्भयत्वं च परिग्रहारम्भ-स्वपरिवारायत्तं कर्तु-विधातुतार:-श्रीसुव्रतजिनः ईश्वरः-प्रभुरस्तीत्यर्थः । तारः किं वि० ? अकते-कुटिलं गच्छति क्विपि अग-कुटिलगमनः, ईदशः 'नौबुद्धौ ज्ञानबन्धयो' रितिवचनात् नो-कर्मबन्धः, तं अस्थति-क्षिपति क्विपि अग्नाः । तारः पुनः क्रिवि. ? ई-पङ्क्तिरथन्यायात् पद्मा जिनजननी, तस्याः 'उकारः क्षत्रिये नेत्रे' इति नानार्थरत्नमालावचनात् उ-नेत्रतुल्य इत्यर्थः, स युः । त्वं पुनः किंवि० ? 'पः प्रौढे ' इतिवचनात् पाप्रौढा, रा-दीप्तिः, तया अ:-कृष्णः, स इवाचरति शतरि परान् । तारः पुनः किं वि० ? दरो-भयं विद्यतेऽस्येति दरी-भयवान , तद्वत'द्राङ्क कुत्सितगताविति द्राति-पलायते डप्रत्यये दरिद्रः, नकारय निषेधार्थत्वात् न दरिद्रः अदरिद्रः-सिहतुल्य इत्यर्थः । तारः पुनः कि वि० ? परम इतिशद्वो विद्यतेऽस्मिन्निति परमी, ईदृशः ईश्वरः शद्वो विद्यतेऽस्येति परमीश्वरी । एवं परमेश्वर इति सिद्धम् । ए इति पादपूरणे ।।२९॥
For Private And Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120