Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३० Acharya Shri Kailassagarsuri Gyanmandir [ शतार्थविवरणे व्यञ्जनच्युतकं तु नैषधवृत्तावभ्युपगतमितीह न दुष्टम् । चित्रत्वादनुस्वाराभावः । अहं किंभूतः ? अयुः, इच उश्च यू, न विद्येते यू - काममहेशौ यत्र सः अयुः । अहं पुनः किं कुर्वन् ? अय[गतौ गत्यर्थानां प्राप्त्यर्थत्वात् शतरि सु-अतिशयेन, अयन् प्राप्नुवन् स्वयन् ताः-लक्ष्मीः प्रति पुनः किंवि० ? दरिद्रः कथं न अहं पुनः किभूतः ? ईश्वरः । ई-स्वर्गापवर्गादिलक्ष्मीस्तरचा ईश्वरः-स्वामी, जिनेन्द्र सेवनादात्मा स्वर्गापवर्गादिलक्ष्मीनायको भवतीत्यर्थः । ई- श्रीः, तया शु-शोभनः, अरोऽरजिनो यस्य वा स ईश्वरः । इत्यण्यर्थान्तरम् ||२७|| श्रीअरजिनं व्यावर्ण्य श्रीमहिजिनं वर्णयतिपरिग्रहारम्भमग्नास्तारये युः कथं पराऽन् । स्वयं दरिद्रो नपरमी श्वरी कर्तुमीश्वरः ||२८|| " व्याख्या– 'इ' इत्यामन्त्रणे । 'दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रह ' इत्यभिधानचिन्तामणिवचनात् हे परिग्रह- हे स्त्रि ! श्रीमल्लिजिनस्य स्त्रीरूपत्वात् । इदं विशेषणम् । हे पर-हे श्रेष्ठ ! त्वं 'आ विधातरि मन्मथे' इतिमहीपवचनात् आ-मन्मथः, तस्य य 'आरम्भस्तु वधदर्पयो 'रित्यनेकार्थात् आरम्भो वधः तं आरम्भकन्दर्पवधं कर्तुं निर्मातु, ईश्वरः प्रभुरसि ! | स्त्रीणां हि कामजयों दुःकरइति त्वं तु स्त्रीत्वेऽपि कामं व्यापादयसीत्यर्थः । त्वं किंभूतः ? अकते -कुटिलं गच्छतीति क्विपि अक्-कुटिलगमनः । स्त्रियो हि कुटिला भवन्तीत्यतः । त्वं नकारस्य निषेधार्थत्वात् न अग्-अकुटिलगन्तेत्यर्थः । पुनः त्वं किंभूतः ? आः स्वयम्भूः, उपलक्षणत्वात् हरिहरादिः, तस्या अस्ता- क्षिप्ता आ-श्री- पूजादिरूपा येन स आस्ताः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120