Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकुन्थु-अरजिनवर्गन ] 'ईच गता वित्यतः क्विपि ईगच्छन् प्राप्नुवन् , उ:-उकारो,यत्र तो यू, ईदृशौ ककारथकारौ यत्र सः युकथः, ईदृशो म्-मकारस्तं पातिस्वनाममध्ये रक्षति डप्रत्यये युकथम्पः । चित्रत्वात् विसर्गाभावः । मकारम्यानुस्वारे कुन्थुरिति सिद्धं, तस्य सम्बो० युकथम्प-हे कुन्थो ! त्वं स्वे-आत्मीयास्तेषां 'यो वात-यशसोः पुंसी'ति विश्वलोचनतः यो-यशः, तं स्वयं-स्वकीययशः, पर-प्रकृष्टं कर्तुं ईश्वरोऽसि । त्वं कि वि० ? उणादिवचनात् रा-दीप्तिः, तया पीतवर्णत्वात् 'अः कृष्णे विनतासूना वितिमहीपवचनात् अः गरुडः, स इवाचरति शतरि रान् । त्वं पुनः कि वि० ? नदरिद्रः-श्रीमानित्यर्थः । त्वं पुनः कि वि० ? ई-श्रीः, तया शु-शोभनं, 'रथाङ्गरथपादोऽरिचक्र मित्यभिधानवचनात् अरि-चक्ररत्नं, चक्रवर्तित्वे चतुर्दशरत्नगतं विद्यते यस्येति सः ईश्वरी ॥२६॥ श्रीकुन्थुनाथं व्यावर्ण्य श्रीअरजिन वर्णयतिपरिग्रहारम्भमग्नास्तारयेऽयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥२७|| व्याख्या--'परिभूमि'रित्युणादिवचनात् परि-भूमि षट्खण्डरूपां, चक्रवर्तित्वात् गृह्णाति-आदत्ते अचि परिग्रहः चक्रवर्तीत्यर्थः, स चासौ अरोऽरजिनश्च परिप्रहारः तं परिग्रहार, अहं 'रयि गताविति गत्यर्थानां परस्त्रीगमनं त्यजेदित्यादिवत् सेवनार्थत्वात् रये-सेवे इत्यर्थः । तं कि भूतं ? केन-सुखेन, थो-भीत्राणं यस्मात् सः तं कथ । तं पुनः किवि० ? परं-श्रेष्ठं, कि कर्तुं ? परान्अन्यान् , ईश्वरीकर्तु-अनीश्वरान् ईश्वरान् निर्मातुमित्यर्थः। परान् किंभूतान् ? भमग्नान् वकारच्युतके भवमग्नान्-संसारनिमग्नान् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120