Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीधर्मशान्तिजिनवर्णनम् ]
द्रोणपः, रिश्वासौ द्रोणपश्चेति रिद्रोणपः, तस्य सम्बो० हे रिद्रोणप!। काका हि म्वकुलपोषकाः । यत उक्तं च-पोषकाः स्वकुलस्टैते काककायस्थकुर्कुटा' इति भगवतस्तदुपमा। ई-श्रीःतया युक्ता 'ऋपृथिव्यां देवमातरी'ति महीपवचनात् ऋ-पृथिवी, तस्याः युः-श्रीपृथिव्या इत्यर्थः । थं-भीत्राणं त्वं कर्तु-विधातुं ईश्वरः-प्रभुरसि । त्वं किंवि०? परिग्रहषु-दारेषु, असते-दीप्यते क्विपि परिग्रहाः । ईदृशी रम्भाइन्द्राणी येषां ते परिग्रहारम्भा-इन्द्राः तेषां भावे क्तप्रत्यये मग्नस्नानं जन्माभिषेकरूपं, तेन असते-दीप्यते-क्विपि परिग्रहारम्भमग्नाः । त्वं पुनः किंवि० ? ई-श्रीः तया या-श्रिया अ-कृष्णः स इवाचरतिक्विपि शतरि अन्-लक्ष्म्या कृष्णतुल्य इत्यर्थः । इ इति पादपूरणेऽव्ययः । त्वं पुन: किंवि० १ रमः-कामो विद्यते यत्र ते रमिणः-कामिनः तेषां इ:-कामो यस्मात् स रमीः। जिनो हि काममिच्छतां कामदः इति भावः । तथा शु-शोभनः, अरः-चतुर्थारकलक्षणो विद्यतेऽस्येति सः श्वरी, रमीश्वासौ श्वरी रमीश्वरी ॥२४॥
अर्थद्वयेन श्रीधर्मनाथं व्यावर्ण्य श्रीशान्तिजिनं वर्णयतिपरिग्रहारम्भमग्नास्तारयेयु: कथं परान् । स्वयं द ! रिद्रो न परमीश्वरी कर्तुमीश्वरः ॥२५।।
व्याख्या- ता-श्रीः चतुर्विंशदतिशयादिरूपा, तस्या रलयो. रैक्यात् आलयः-वसतिः, तस्य सं० हे तालय ! हे द-हे दायक ! 'श्रीशान्तिनाथादपरो न दानी'ति प्रसिद्धेः । त्वं नः-अस्मान् , चित्रत्वाद्विसर्गाभावः । परान्-श्रेष्ठान , स्वयं-आत्मना, कर्तु-विधातुं, ईश्वरोऽसि परं-प्रकृष्णं यथा स्यात्तथा क्रियाविशेषणमेतत् । त्वं किंवि० ?
For Private And Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120