Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ शतार्थविवरण ई-श्रिय, ईयते-गच्छति क्विपि ईः, ईदृशः ' मृगयुः . व्याध: मृगश्चे'त्युणादिवचनात् युः-भीमो भीमसेनवत् मृगयुः-मृगो लाञ्छनरूपी यस्य सः ईयुः-मृगलाञ्छनत्वात् श्रीशान्तिजिन इत्यर्थः । त्वं पुनः कि वि० ? ऋभूमिः तस्यां भावे क्विाप 'गत्या ज्ञानार्था' इति वचनात् इत्-ज्ञानं, तेन राजते-शोभते डप्रत्यये रिद्रः । त्वं पुनः किं वि० ? 'ई भुवि श्रिया'मितिवचनात् ई- भूमिस्तस्या ईश्वराः नायकाः ते ईश्वराः भूमीश्वराः, ते द्वात्रिंशत्सहस्त्रमिता विद्यन्तेऽस्येति ईश्वरी । पुनः किंवि० ? परि-समन्तात् ग्रहाः-'नक्षत्र तारका तारा ज्योतिषी भमुडु ग्रह ' इतिवचनात् ' तारा यस्य स परिग्रहः-चन्द्रः, तत्र आस्तेतिष्ठति क्विपि परिग्रहा-मृगः, रलयोक्यात् लम्भो-दर्शन यत्र स परिग्रहालम्भा-श्रीशान्तिदेवः, मृगचिहनत्वात् , तत्र मग्ना लीना इत्यर्थः, तान् परिग्रहालम्भमम्नान् । चित्रत्वादनुस्वाराभावः । कथमिति सम्भवेऽव्ययः ।।२५।। श्रीशान्तिदेवं व्यावर्ण्य श्रीकुन्थुनाथं वर्णयतिपरिग्रहारम्भमग्नाऽस्तारयेयुः कथंप ! रान् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥२६॥ व्याख्या-परिग्रहाः-दाराः चतुःषष्टिसहस्त्रमिताः, तेषां यः आरम्भ-उपक्रमः, तत्र मग्नः-चक्रवर्तित्वे निमग्नो यः सः, तस्य सम्बो० हे परिग्रहारम्भमग्न ! ' दिष्टान्तोऽस्तं कालधर्म' इति (हैम) वचनात् अस्तं-पश्चत्वं, अस्यति-त्यजति क्विपि अस्ता-मरणभयरहितः, ईदृशः 'रः तीक्ष्णे वैश्वानर' इतिवचनात् रो-वहनिस्तस्य यो-यानं रथ इत्यर्थः, सारयः-छागः अग्निरथत्वात् चिहनरूपो यस्य सः, तस्य सम्बो० हे अस्तारय-छागचिहन-त्वात् हे कुन्थुनाथ ! 'ई' इत्यामन्त्रणे। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120