________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीकुन्थु-अरजिनवर्गन ]
'ईच गता वित्यतः क्विपि ईगच्छन् प्राप्नुवन् , उ:-उकारो,यत्र तो यू, ईदृशौ ककारथकारौ यत्र सः युकथः, ईदृशो म्-मकारस्तं पातिस्वनाममध्ये रक्षति डप्रत्यये युकथम्पः । चित्रत्वात् विसर्गाभावः । मकारम्यानुस्वारे कुन्थुरिति सिद्धं, तस्य सम्बो० युकथम्प-हे कुन्थो ! त्वं स्वे-आत्मीयास्तेषां 'यो वात-यशसोः पुंसी'ति विश्वलोचनतः यो-यशः, तं स्वयं-स्वकीययशः, पर-प्रकृष्टं कर्तुं ईश्वरोऽसि । त्वं कि वि० ? उणादिवचनात् रा-दीप्तिः, तया पीतवर्णत्वात् 'अः कृष्णे विनतासूना वितिमहीपवचनात् अः गरुडः, स इवाचरति शतरि रान् । त्वं पुनः कि वि० ? नदरिद्रः-श्रीमानित्यर्थः । त्वं पुनः कि वि० ? ई-श्रीः, तया शु-शोभनं, 'रथाङ्गरथपादोऽरिचक्र मित्यभिधानवचनात् अरि-चक्ररत्नं, चक्रवर्तित्वे चतुर्दशरत्नगतं विद्यते यस्येति सः ईश्वरी ॥२६॥
श्रीकुन्थुनाथं व्यावर्ण्य श्रीअरजिन वर्णयतिपरिग्रहारम्भमग्नास्तारयेऽयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥२७||
व्याख्या--'परिभूमि'रित्युणादिवचनात् परि-भूमि षट्खण्डरूपां, चक्रवर्तित्वात् गृह्णाति-आदत्ते अचि परिग्रहः चक्रवर्तीत्यर्थः, स चासौ अरोऽरजिनश्च परिप्रहारः तं परिग्रहार, अहं 'रयि गताविति गत्यर्थानां परस्त्रीगमनं त्यजेदित्यादिवत् सेवनार्थत्वात् रये-सेवे इत्यर्थः । तं कि भूतं ? केन-सुखेन, थो-भीत्राणं यस्मात् सः तं कथ । तं पुनः किवि० ? परं-श्रेष्ठं, कि कर्तुं ? परान्अन्यान् , ईश्वरीकर्तु-अनीश्वरान् ईश्वरान् निर्मातुमित्यर्थः। परान् किंभूतान् ? भमग्नान् वकारच्युतके भवमग्नान्-संसारनिमग्नान् ।
For Private And Personal Use Only