Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४
Acharya Shri Kailassagarsuri Gyanmandir
[ शतार्थविवरणे
कृष्णतुल्य इत्यर्थः । त्वं पुनः किंवि० ? 'ई भुवि श्रिया' मिति महीप - वचनात् ई: - पृथ्वीः रत्नप्रभादिरूपाः शसयोरैक्यात् स्वः स्वर्गान ते गत्यर्थानां ज्ञानार्थत्वात् जानाति क्विपि ईश्वरी, चित्रत्वाद्विसर्गाभावः । परिग्रहारम्भं किंवि० ? कस्यात्मनः, थो-भारो यस्मात् सः तं कथं । परिग्रहारम्भं पुनः किंवि० ? 'नोबुद्धौ ज्ञान-बन्धयोरि' तिवचनात् नस्य ज्ञानस्य 'प्रतिपक्षः परो रिपु' रितिवचनात् परःप्रतिपक्षभूतः तं परं ||२१||
श्रीविमलजिनं व्यावर्ण्य श्रीअनन्तजिनं वर्णयति -
परिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्व! यं दरिद्रो नपरमीश्वरी कर्तुमीश्वरः ||२२||
- नकारश्च
व्याख्या - परि-समन्तात्, रलयोरैक्यात ग्लायतीति इप्रत्यये परिग्लः । ईदृशः 'हः शूलिनि करे नीरे को गर्भप्रभाषणे ' इति सुधाकलशात् हः क्रोधगर्भप्रभाषणं यस्मात् तस्य सं० हे परिग्लह ! | अः - अकारः, तेन अर - अत्यर्थं भातीति डप्रत्यये आरम्भः ईदृशः तथा मं- मकारं अकते - गच्छति क्वििप मग, सचासौ नःसः मग्नः, तेन असते - दीप्यते क्विपि मग्नाः, ईदृशः तः - तकारो यस्य नाम्नि सः, तस्य संव्हे आरम्भमग्नास्त ! | एतावता है अनन्त ! | सु-शोभना, अ-लक्ष्मीर्यस्य सः, तस्य सम्बो० हेस्व ! | ई इत्यामन्त्रणे । त्वं पाः - प्रौढाश्च ते रा-नराश्च पराः, तान् परान् । अथवा परान्-अन्यान् रलयोरैक्यात् आल- विभूषयामास । त्वं किवि० ? दरिद्रः । दानि - कलत्राणि, रितो - मनुष्यास्तेषां रा- दीप्तिस्मात् स दरिद्रः । त्वं किं कुर्वन् ? यन्- गत्यर्थानां प्राप्त्यर्थत्वात
For Private And Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120