Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीविमल जिनवर्णनम् ] विति महीपवचनात् अः-गरुडः, पीतरक्तयोरैक्यात् स इवाचरति शतरि परान् ।।२०॥ श्रीवासुपूज्यं व्यावर्ण्य श्रीविमलजिनं वर्णयतिपरिग्रहारम्भमग्नास्तारये युः कथं पराऽऽन । स्वयं दरिद्रो नपरमीश्वरी कर्तुमीश्वरः ॥२१॥ व्याख्या-'तकारस्तस्करे युद्धे कोडे पुच्छे चे'तिवचनात् तःशूकरः, तेन आ राजते-शोभते डप्रत्यये तारः, तस्य सम्बो० हे तार ! शूकरचिह्नत्वात् हे विमल ! हे पर-हे श्रेष्ठ ! । अथवा असते दीप्यते क्विपि आः-दीप्यमानः, ईदृशः तः-शूकरो यस्य सः अस्तः, तस्य सम्बो० हे अस्त ! । रलयोरैक्यात् 'आलिः पालिसखी श्रेणिष्वनर्थे विमले गुण'इति महीपवचनात् आलिः-पङ्कितरथन्यायात् विमल: जिनः, तस्य सम्बो०हे आले-हे विमलजिन !। ए इत्यामन्त्रणे इत्यपि व्याख्यातं । त्वं परिग्रहाः-दारा, तेषां आरम्भ - उपक्रमः, तं परिग्रहारम्भ, स्वयं-आत्मगं कर्तुं दरिद्रोऽसि आश्रवहेतुत्वात् । त्वं किंवि० ? ई-श्रीः, तस्या ईश्वरः-पतिः, स ईश्वरः । त्वं पुनः किंवि०? अकते-कुटिलं गच्छति क्विपि अग-वक्रः । कस्मिन् ? ये-यमे कुटिल इत्यर्थः । त्वं पुनः किंवि० ? ना-पुरुषः, न तु श्रीमल्लिजिनवत् स्त्रीरूपावतारः । व्याख्यान्तरे तु न अग्-न वक्र:-सरल इत्यर्थः इत्यपि ज्ञेयम् । आ-ब्रह्मा, तद्वत् पीतवर्णत्वात् असते-दीप्यते क्विपि आः । त्वं पुनः किंवि० ? युः । ई-श्रीः, तया युक्तः 'उकारः क्षत्रियेनेत्रे' इति नानार्थरत्नमालावचनात् उ:-क्षत्रियः, स युः । त्वं पुनः किंवि०? आ-श्रीः, तया अ:-कृष्णः, स इवाचरति शतरि आन्-श्रिया For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120