Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ शतार्थविवरणे तया रक्तवर्णत्वात् आर-मङ्गलं याति-प्राप्नोति ‘डप्रत्यये तस्य सम्बो० हे अस्तार ! अथवा सः-सकारस्य, तारा-नक्षत्र 'गोससीसू शतभिषग्' इतिवचनात् शतभिषग् नक्षत्र जन्मादिसमये यस्य सः स्तारः-वासुपूज्यः, जन्मादिसमये शतभिषग्नक्षत्रत्वात् । आश्रीः, तया युक्तः स्तारः आस्तारः-श्रीवासुपूज्य इत्यर्थः । तस्य सम्बो० हे आस्तार ! । हे द-हे वार्षिकदानदायक ! क्र-भूमिस्तस्यां भावे क्विपि 'इंण्क् गतौ' इत्यस्य ‘गत्यर्था ज्ञानार्था' इतिवचनात् इत्-ज्ञानं तेन 'रुः सूर्य रक्षणे' इति सुधाकलशवचनात् रुःसूर्यतुल्यः, तस्य सं० हे रिद्रो-हे केवलज्ञानभास्कर ! 'नकारो जिनपूज्ययो' रितिविश्वलोचनतः नः-पूज्यः, भीमो भीमसेनवत् पूज्यः-वासुपूज्यः; तस्य सम्बोव्हे न !। त्वं या-श्रिया र-नर 'रः तीक्ष्णे वैश्वानरे नरे' इतिवचनात् रो-नरः, नब्योगे अरःअमर्त्यः, सु-शोभनो अरः श्वरः, श्वरीकर्तु-सुरीकर्तुं ईश्वरोऽसि | जातेरैक्यात् रान्-नरान् अदेवान् देवीकर्तुं प्रभुरित्यर्थः । त्वं किं कुर्वन् ? परिग्रहो-धनधान्यादिः, आरम्भः-कृषिवाणिज्यादिः, समाहारे परिग्रहारम्भ, यन् नबो योगे अयन्-अगच्छन् । सुअतिशयेन, अयन्-स्वयन् । स्वयमित्यत्र ‘यमा यपेऽस्ये' तिसूत्रेणानुस्वारस्य नकारे स्वयन्निति सिद्धम् । परिग्रहारम्भं किं० ? कस्यात्मनः 'थो भवेद् भयरक्षणे भूधरे च तथा भार' इति सुधाकलशवचनात् थो-भारो यस्मात् तत् कथं । पुनः त्वं किंवि० ? 'अकि कुटिलायां गतौ' इति अकते-कुटिलं गच्छति क्विपि अग् । नकारस्य निषेधार्थत्वात् न अग्-अकुटिलगन्तेत्यर्थः । त्वं पुनः किं० ? इ:-कामः, तत्र युः-भीमो भीमसेनवत् मृगयुरित्यर्थः । त्वं पुनः किंवि० ? पा-प्रौढा, रा-दीप्तिः, तया ' अः कृष्णे विनतासूना' For Private And Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120