________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीविमल जिनवर्णनम् ] विति महीपवचनात् अः-गरुडः, पीतरक्तयोरैक्यात् स इवाचरति शतरि परान् ।।२०॥ श्रीवासुपूज्यं व्यावर्ण्य श्रीविमलजिनं वर्णयतिपरिग्रहारम्भमग्नास्तारये युः कथं पराऽऽन ।
स्वयं दरिद्रो नपरमीश्वरी कर्तुमीश्वरः ॥२१॥ व्याख्या-'तकारस्तस्करे युद्धे कोडे पुच्छे चे'तिवचनात् तःशूकरः, तेन आ राजते-शोभते डप्रत्यये तारः, तस्य सम्बो० हे तार ! शूकरचिह्नत्वात् हे विमल ! हे पर-हे श्रेष्ठ ! । अथवा असते दीप्यते क्विपि आः-दीप्यमानः, ईदृशः तः-शूकरो यस्य सः अस्तः, तस्य सम्बो० हे अस्त ! । रलयोरैक्यात् 'आलिः पालिसखी श्रेणिष्वनर्थे विमले गुण'इति महीपवचनात् आलिः-पङ्कितरथन्यायात् विमल: जिनः, तस्य सम्बो०हे आले-हे विमलजिन !। ए इत्यामन्त्रणे इत्यपि व्याख्यातं । त्वं परिग्रहाः-दारा, तेषां आरम्भ - उपक्रमः, तं परिग्रहारम्भ, स्वयं-आत्मगं कर्तुं दरिद्रोऽसि आश्रवहेतुत्वात् । त्वं किंवि० ? ई-श्रीः, तस्या ईश्वरः-पतिः, स ईश्वरः । त्वं पुनः किंवि०? अकते-कुटिलं गच्छति क्विपि अग-वक्रः । कस्मिन् ? ये-यमे कुटिल इत्यर्थः । त्वं पुनः किंवि० ? ना-पुरुषः, न तु श्रीमल्लिजिनवत् स्त्रीरूपावतारः । व्याख्यान्तरे तु न अग्-न वक्र:-सरल इत्यर्थः इत्यपि ज्ञेयम् । आ-ब्रह्मा, तद्वत् पीतवर्णत्वात् असते-दीप्यते क्विपि
आः । त्वं पुनः किंवि० ? युः । ई-श्रीः, तया युक्तः 'उकारः क्षत्रियेनेत्रे' इति नानार्थरत्नमालावचनात् उ:-क्षत्रियः, स युः । त्वं पुनः किंवि०? आ-श्रीः, तया अ:-कृष्णः, स इवाचरति शतरि आन्-श्रिया
For Private And Personal Use Only