Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 20 Acharya Shri Kailassagarsuri Gyanmandir [ शतार्थविवरणे " हे दरिद्रोन ! भवान् 'इ: श्री रित्येकाक्षरवचनात् ई-श्रीः, तया युक्ता था ' ऋ पृथिव्यां देवमातरी' ति महीपवचनात् ऋ - पृथ्वी 'पङ्कित रथ'न्यायात् श्रीसुपार्श्वजिनमाता तस्या युः - श्री सुपार्श्वजिनजनन्याः ' रलयोरैक्यात् ' आलये - मन्दिरे, परिग्रहारम्भं परं श्रेष्ठं कर्तुं आस्त- अभवत् अविशद्वा । भावनिर्देशात् परिग्रहत्वस्य - स्त्रीत्वस्य आरम्भस्तु वधदर्पयो 'रित्यनेकार्थवचनात् य आरम्भो-दर्पः तीर्थकरजननीत्वेन नाहं स्त्रीप्रधानेत्येवंरूपोऽहङ्कारस्तं परं - प्रकृष्टं कर्तुं - विधातुं भवान् ईश्वरः - समर्थ आस्त - अभवदित्यर्थः । भवान् किं - कुर्वन् ? यन्-चलन् कुतः ? ' शसयोरैक्यात् ' स्वः- स्वर्गादित्यर्थः । यं इत्यत्र 'यमा यपेस्ये' ति सूत्रेणानुस्वारस्य नकारे यन्नितिसिद्धम् । ई प्रत्यक्षेऽव्ययः । भवान् किवि० ? न अग, कोऽर्थः ? अकं दुःखं करोतीति णिजि क्विप अग् - दुःखकृत्, नकारस्य निषेधार्थत्वात् । अदुःखकृदित्यर्थः । पुनः किं वि० भवान् ? परान् शत्रून् अन्तयतिविनाशयति णिजि क्विपि तकारस्य लोपे परान् इति सिद्धम् । कथमित्यव्ययः सम्भवे ||१३|| इत्यर्थद्वयेन सुपार्श्वजिनं व्यावर्ण्य श्रीचन्द्रप्रभं वर्णयति - परिग्रहारम्भ ! मग्नास्तर 'येयुः कथं परान् । स्वयं दरिद्रोन ! परमी श्वरीकर्तुमीश्वरः || १४ || व्याख्या–प्-व्यञ्जनपकारस्तस्मिन् अरिग्- रिगशद्वहीनः, ईदृशः यो रः- रकारस्तं जिहीते गच्छति उप्रत्यये परिग्रहः । प्र इतिजातम् । संज्ञाशब्दत्वान्न पकारस्य बकारः । तत ईदृशः अरम्-रम् १ ई ए ई उ इति छेदः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120