Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसुविधि-शीतलजिनवर्णनम् ]
आ-लक्ष्मीः , तया अ:-कृष्णः, स इवाचरति शतरि पश्चात् सन्धौ कृते आन् । त्वं पुनः किंवि० ? दरिद्रवत् ऊनःअसम्पूर्णमनोरथः, ईदृशः पः-प्रौढः रमः-कामो येभ्यः ते दरिद्रोनपरमाः-क्षीणकामत्वात् साधवः, ते विद्यन्तेऽस्येति स दरिद्रोनपरमी । त्वं पुनः किंवि० १ 'रः कामे तीक्ष्णे वैश्वानरे नरे' सुधाकलशवचनात् राः-नराः, नया योगे अरा-अमर्त्या देवा इत्यर्थः । सु-शोभनाः, अरा-अमर्त्याः, जघन्यभावात् कोटिमिताः पार्श्वदेशे विद्यन्तेऽस्येति सः श्वरी । शुरितिशब्दः तालव्यान्तोप्यस्ति उणादिविवरणे । 'ई' इत्यामन्त्रणे । कथमित्यव्ययः संभवे ॥१॥
श्री सुविधिजिनं व्यावर्ण्य श्रीशीतलजिनं वर्णयतिपरिग्रहारम्भमग्ना स्तारये युः कथं परान् । स्वयं दरिद्रो! नपरमी श्वरी कर्तुमी श्वरः ॥ १६ ॥
व्याख्या दानि-कलत्राणि, रितो-मनुष्याः, तेषां 'रुः सूर्य रक्षणेऽपी'ति सुधाकलशवचनात् रुः-रक्षणं यस्मात् स दरिद्रः, तस्य सम्बो० हे दरिद्रो !। कं सुखं च थो-भीत्राणं च समाहारे च तत् कथं । कर्तु-निर्मातुं त्वं स्वयं-स्वयमेव युः। ई-श्रीः, तया उः-शङ्करोऽसि । 'ई' प्रत्यक्षेऽव्ययः । अतः कारणात् परान्-अन्यान् ऊन्-शङ्करान् त्वं स्तारय । कोऽर्थः ? 'स्तृगृ आच्छादने' इत्यस्य प्रयोक्तृव्यापारे स्तारय इति रूपसिद्धिः । ततः तान् पिहितान् कारयेत्यर्थः । ऊन् इत्यत्र बहुवचनं एकादशरुद्रग्रहणार्थम् । तत एकादशापि ऊन्-रुद्रान्
For Private And Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120