Book Title: Shatarth Vivaranam
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीश्रेयांस जिनवर्णनम् ] १९ कप्पइ अज्जप्पभि अन्न उत्थिए वा अन्नउत्थियदेवयाणि वा ' इति - वचनात् मिथ्यात्वहेतुत्वात् निषेधयामास । ऊन् किंवि० ? ई-श्रीः तया युक्ता ' ऋ पृथिव्यां देवमातरी' तिमहीपवचनात् क्र- पृथिवी जगदित्यर्थः । तस्याः युः- श्रीजगत्याः परान् - शत्रून् मिध्यात्वहेतुत्वात् । ऊन् पुनः किंवि० ? परिग्रहा - दाराः, आरम्भो - वधः, तत्र मग्नाः - आसक्ताः तान् परिग्रहारम्भमग्नान् । चित्रत्वादनुस्वाराभावः । ईश्वरः किंवि० ? ता-लक्ष्मीतुल्यः सर्वेष्टत्वात् । ईश्वरः पुनः किंवि० १ या - त्रैलोक्यश्रीः, तस्या ईनः - स्वामी, स येनः - तीर्थकर, तं आचष्टे णिजि पि नकारलोपे ये इतिसिद्धम् । ई इत्यव्ययः पादपूरणे ॥ १७॥ अर्थद्वयेन श्री शीतलजिनं व्यावर्ण्य श्री श्रेयांसजिनं वर्णयति परिग्रहारम्भमग्नास्ता रयेऽयुः कथं पराइन् । स्वयं दरिद्रोनपरमीश्वरीकर्तुमीश्वरः ॥ १८ ॥ व्याख्या- कश्चित् श्राद्धो जायां प्रति श्रीश्रेयांसवर्णनं वक्ति- 'दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रह ' इत्यभिधानचिन्तामणिवचनात् हे परिग्रह - हे जाये ! भेषु-नक्षत्रेषु मग्नः - निमग्न आस्ते तिष्ठति किपि भमग्नाः-चन्द्र इत्यर्थः । तद्वत् ता वदनादिश्रीर्यस्य सः तस्य सम्बो० हे भग्नास्त! ' अस्मिन्नसारे संसारे सारं सारंगलोचना' इतिवचनात् परः श्रेष्ठः, तस्य सम्बो० हे पर ! अहं अरं श्रीश्रेयांसं रये - सेवे इत्यर्थः । ' रयि गतौ' परस्त्रीगमनं त्यजेदित्यादौ गमनार्थानां सेवनार्थत्वात् रये-सेवे इत्यर्थः । अः - पङ्किरथ 'न्यायात् विष्णुः - श्री श्रेयांसजनकः तस्मात् 'रुहं जन्मनी तिवचनात् - रूढो जातः डप्रत्यये अरः तं अरं श्रेयांसमित्यर्थः । अहं किंवि० ? अयुः । इः - कामः, उपलक्षणत्वात्. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120