Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 409
________________ ३५२ प्रथमे काण्डेअपि च, तदनुमानं किं कार्यलिङ्गप्रभवम् , स्वभावहेतुसमुत्थं वा, उतानुपलब्धिप्रसूतमिति विकल्पत्रयम् । न तावत् प्रथम-द्वितीयपक्षी कार्य-स्वभावहेत्वोर्विधिसाधकत्वाभ्युपगमात् "अत्रे द्वो वस्तुसाधनौ” इधि वचनात् ("अत्र द्वौ वस्तुसाधनो" [न्यायबिन्दु० परि०२ सू० १९] इति वचनात् ) । नापि अनुपलब्धिप्रसूतमिति पक्षः अनुपलब्धेरसिद्धात्( रसिद्धत्वात् ) बहिरर्थस्य प्रति. ५भासनात्। उपलभ्यानुपलब्धिस्वा(स्त्व)भावा(व)साधनी सा च नियतदेश-कालमेवार्थाभावंगमयति न सर्वत्र सर्वदेति न ततोऽपि सर्वथा अभावसिद्धिः । तद् भावबाधकप्रमाणाभावात् नार्थाभावतो विज्ञप्तिमात्रसिद्धिः। ____ अथापि स्यात् नार्थाभावद्वारेण विज्ञानमात्रं साध्यते अपि त्वर्थ-संविदोस्सहोपलम्भनियमादभेदः चन्द्रद्वयादिवदिति वि(विधि)मुखेनैव साध्यत इति न पूर्वोक्तो दोषः, असदेतत्; अभेदस्य १० प्रत्यक्षेण बाधनात् यतः पुरस्थस्फुटवपुर्नीलादि प्रतिभाति हृदि रूपग्राहकाकारं बिभ्राणा संविञ्चकास्तीति कुतोध्वान्तसं(कुतोऽर्थ-तत्सं )विदोरभेदः साधयितुं शक्यः शब्देऽश्रावणवत्(णत्ववत्) पक्षस्य प्रत्यक्षेण निराकृतेः, न वा(चा )भेदेऽपि प्रत्यक्षं भेदाधिगन्त्रुपलब्धमिन्दुद्वयादिवत् इति न तेव( तेन ) बाधा यतो द्विचन्द्रादौ बाँधादर्शनात् तस्य भ्रान्तत्वमस्तु स्तम्भादौ त्वर्थक्रियाकारिरूपो. पलब्धि(ब्धे)स्तदभावास्त(त्स)त्यता ततो नील वुढ्योर्भेद एव । असिद्धश्चायं हेतुर्मीमांसकमतेन वि. १५ ज्ञानव्यतिरेकेण बाह्यार्थस्यैवोपलम्भात् प्रत्यक्षार्थव्यतिरिक्तस्य तदा ज्ञानस्यानुपलक्षणात् । न चान्तः सुखाशा(द्या)कारज्ञानोपलम्भात् सिद्धो हेतुरिति वक्तव्यम्, सुखादेर्बाह्या(ह्य)संवेदनं प्रति व्यापारासंवेदनात् । नहि सुखादयः स्वरूपनिमग्नतया प्रतिभासमानास्तदैवार्थग्राहितया प्रतीयन्ते । न च समकालप्रतिभासनात् व्यापारमन्तरेणापि नीलादिग्राहकाः, तेषामपि तद्राहकतापत्तेः । यदि च नीला(लादी)नां सुखादिकं ग्राहक तथासति तदभावे नीलादीनां ग्रहणं न स्यात् । नहि यद् यद्राह्यं तत् ६० तदभावे प्रतिभाति चक्षुरभाव इव रूपम् चक्षुःसभवधाने व(च) सुख(खा)भावेऽपि नीलमाभाति [?? नापि तस्य तद्राहकम् । यदि च सुखादिरूपैव संविद् नान्या ऐवंसति सुखाद्यभावेऽपि नीलादिकस्य स्फुटतया प्रतिभासात् तदा मानसस्य च सुखादेनीलावभासावेप्यवभासनत्वासिद्धो नीलादीनां ग्रहणं न स्यात् नहि यद् यदग्राह्य तत् तदभाँद्धियोः सहोपलम्भनियमः नियतकादाचित्कसहोपलम्भतो यो १ अत्रे न्द्वो वा. बा. विना।। "अत्र द्वौ वस्तुसाधनौ एकः प्रतिषेधहेतुः" ॥ १९॥-न्यायबिन्दुप्र० । " 'अत्र द्वौ वस्तुसाधनौ' इत्यभिधानात्"-प्रमेयक० पृ. २१ प्र. पं० ८। २-धनादिवचनान्नाप्यनु-भां. मां. हा०वि०।-धनान्नाप्यनु-आ०। ३-लब्धिर-भां. मां०। ४-द्धा ब-आ० ।। ___"अनुपलब्धेरसिद्धत्वात् बाह्यार्थस्याध्यक्षादिनोपलम्भात् । किन, अदृश्यानुपलब्धिस्तदभावसाधिका स्यात् दृश्यानुपलब्धिर्वा ? प्रथमपक्षे अतिप्रसङ्गः । द्वितीयपक्षे तु सर्वत्र सर्वदा सर्वथा अर्थाभावाऽप्रसिद्धिः प्रतिनियतदेशादावेव अस्यास्तदभावसाधकत्वसंभवात् "-प्रमेयक. पृ. २१ प्र०५०९। ५-लब्धिस्थाने भा-बा. बा. विना । ६ तदद्भावा० बा०। ७-विदोपलम्भ-वा. बा. विना। ८ "द्विचन्द्रदर्शनवदिति विधिद्वारेणैव साध्यते"-प्रमेयक पृ० २९ प्र० पं० १२। ९-दस्य प्रत्युक्षेण वा. बा० ।-दस्य प्रत्युपेक्षण हा० वि०।-दप्यस्य प्रत्युपेक्षण भां० मां० । "अभेदपक्षस्य प्रत्यक्षेण बाधनात् शब्दे श्रावणत्ववत्"-प्रमेयक. पृ० २१ प्र. पं० १२। १० पुरस्थ फुटंव(पुरस्थं स्फुटव)-वा० बा०। ११ कुतोध्वंतंसं-मां। कुतोध्वतंसवि-भां० । कुतोवंतसंविवि-वा० बा०। १२ शब्दे श्रावणाव-वा० बा०। १३-धिगत्रुप-भां० मा० ।-धिगंत्रुमंप-वा० बा० । १४ बाध्यद-भा० मां०। १५ “अर्थक्रियाकारिस्तम्भाधुपलब्धौ तु तदभावात् सत्यता"-प्रमेयक. पृ० २१ प्र. पं. १४ । १६-बुद्ध्यार्भे-आ० ।-बुद्ध्यादेर्भ-वि० सं०। १७ न चान्तसु-भा० मां० । न चान्तासु-वा० बा० । न वान्तसु-हा० वि०। १८-पारसं-आ०। १९-लादीना सु-वा. बा. विना। २०-दिकां ग्रा-वा. बा. आ. विना। २१-भाति भाति चक्षु-वा. बा. भां. मां। २२ एवंसन्ति भां. मां० हा०वि० विना । २३-खाद्याभावे आ० विना। २४ तदी मा-वा० बा०। २५-खादेनी-वा० बा० विना । २६-लावभासावप्येवभा-आ० हा० ।-लावभासावप्यवभा-वि०।-लावभासाभावेप्यवभा-वि० सं० ।-लावभावप्येवभा-मां०।-लावप्येवभा-भा०। २७-भावाद्वियोः भां. मां. आ० हा० वि०। २८-म्भनियमःऽनयतका-वा. बा०।-म्भनियतका-भां. मां०। २९-भतो यो नि-हा० वि०।-म्भन्तो योनि-वा. बा। -म्भतोययोनि-वि० सं० ।

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516