Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 465
________________ प्रथमे काण्डे परिणतम् परिणस्यद् वा द्रव्यं तच्छब्दवाच्यं द्रव्यार्थिकमतेन व्यवस्थितं पूर्ववत् । अत एव घटाद्यर्थाभिशः तत्र च अनुपयुक्तो 'द्रव्यम्' इति प्रतिपादितः द्रव्यार्थिकनिक्षेपश्च । द्रव्यमार्गेमे अनेकधा प्रतिपादितम् इह तु युक्तिसंस्पर्शमात्रमेव प्रदर्श्यते तदर्थत्वात् प्रयासस्य । ४०६ [ ४ भावनिक्षेपः ] [ भावं व्याख्याय तत्र पर्यायार्थिकत्वकथनम् ] भवति - विवक्षितवर्त्तमानसमयपर्यायरूपेण उत्पद्यते इति भावः, "विभाषा ग्रहः” [३|१|१४३ सिद्धान्तकौ० अं० २९०५ ] इत्यत्र सूत्रे कैश्चिद् “भवतेश्व" इति णोऽपीष्यते । अथवा भूतिर्भावः वज्र- किरीटी दिधारणवर्त्तमानपर्यायेणेन्द्रादिरूपतया वस्तुनो भवनम् तग्रहणपर्यायेण वा ज्ञानस्य भवनम् । यथा चायं पर्यायार्थिकप्ररूपणा तथा प्रदर्शित एव प्राकू न पुनरुच्यते । एष एव नय१० निक्षेपानुयोग प्रतिपादितः उभयनयप्रविभागः परमार्थः परमं हृदयमागम स्यैतदव्यतिरिक्तविषयत्वात् सर्वनयवादानाम् न हि शास्त्रपरमहृदयनयद्वयव्यतिरिक्तः कश्चिन्नयो विद्यते सामान्यविशेषस्वरूपविषयद्वयव्यतिरिक्तविषयान्तराभावाद् विषयिणोऽप्यपरस्य नयान्तरस्याभाव इति प्राक् प्रतिपादितमिति ॥ ६ ॥ गा० १ " अणुवओगो दव्वं" - अनुयोग० पृ० ३२ द्वि० सू० ३३ । “अनुपयोगो द्रव्यम्"- विशेषा० बृ० वृ० पृ० २५ २९ प्र० पं० १६ । २- मे वाच्यं । अ-भां० मां० । ३ " भवतेश्च इति वक्तव्यम्" - काशिका पृ० १७३३।१।१४३ सूत्रवृत्तौ । “भवतेश्व इति काशिका" - सिद्धान्तकौ० पृ० ४९० सूत्र २९०५वृत्तौ । ४-टादिकरण - वृ० । ५ " भावः " - बृ० ल० मो० टि० ।

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516