Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 467
________________ ४०८ प्रथमे काण्डे [द्रव्य-पर्याययोरन्योन्यसम्मिश्रत्वसूचनाय ज्ञानानेकान्तवर्णनम्] एवं तावद् द्रव्यार्थिक-पर्यायार्थिकभेदेन मेदमनुभवतां नयानां स्वरूपं प्रतिपाद्य अनेकान्तभावभावनयैवैषां सत्यता नान्यथेत्येतत्प्रतिपादनार्थ मानानेकान्तमेव तावदाह पजवणयवोकतं वत्धुं दवट्टियस्स वयणिज्जं । जाव दविओवओगो अपच्छिमवियप्पनिव्वयणो॥८॥ द्रव्यास्तिकस्य वक्तव्यम्-परिच्छेद्यो विषयः, निश्चयकर्तृ वचनं निर्वचनम् , विकल्पश्च निर्वचनं च विकल्प-निर्वचनम्, न विद्यते पश्चिमं यस्मिन् विकल्पनिर्वचने तत्-तथा-तथाविधं तद् यस्य द्रव्योपयोगस्यासौ अपश्चिमविकल्पनिर्वचनः सङ्ग्रहावसान इति यावत् ततः परं विकल्पवचना ऽप्रवृत्तेः । यावद् अपश्चिमविकल्पनिर्वचनो द्रव्योपयोगः प्रवर्त्तते तावद् द्रव्यार्थिकस्य १० विषयो वस्तु, तच्च पर्यायाक्रान्तमेव; अन्यथा ज्ञानाऽर्थयोरप्रतिपत्तेरसत्त्वप्रसक्तिः। न हि पर्याः याऽनाफ्रान्तसत्तामात्रसद्भावग्राहकं प्रत्यक्षम् अनुमानं वा प्रमाणमस्ति, द्रव्यादिपर्यायाक्रान्तस्यैव सर्वदा सत्तारूपस्य ताभ्यामवगतेः। __ यद्वा यद् वस्तु सूक्ष्मतरतमादिबुद्धिना पर्यायनयेन स्थूलरूपत्यागेनोत्तरतत्तत्सूक्ष्मरूपाश्रयणाद् व्युत्क्रान्तम् गृहीत्वा त्यक्तम् , यथा किमिदं मृत्सामान्यं घटादिभिर्विना प्रतिपत्ति१५ विषयः यावत् शुक्लतमरूपस्वरूपोऽन्त्यो विशेषः एतद् द्रव्यार्थिकस्य वस्तु विषयः यतो यावद् अपश्चिमविकल्पनिर्वचनोऽन्त्यो विशेषस्तावद् द्रव्योपयोगः द्रव्यमानं प्रवर्तते; नहि द्रव्यादयो विशेषान्ताः सदादिप्रत्यया विशिष्टैकान्तव्यावृत्तबुद्धिग्राह्यतया प्रतीयन्ते, न च तथाऽप्रतीयमा. नास्तथाभ्युपगमार्हाः अतिप्रसङ्गात् ॥ ८॥ [ वस्तुगत्या व्यात्मक एव तत्वे नयद्वयविषयविवेकस्य विवक्षाधीनत्वाभिधानम् ] २० सदेवं न सत्ता विशेषविरहिणी, नापि विशेषाः सत्ताविकला इति प्रदोपसंहरनाह दव्वढिओ ति तम्हा नत्थि णओ नियम सुद्धजाईओ। ण य पज्जवडिओ णाम कोइ भयणाय उ विसेसो ॥९॥ तस्माद् द्रव्यार्थिकः इति नयः शुद्धजातीयः विशेषविनिर्मुक्तो नास्ति-नियमेन इत्यवधारणार्थः-विषयाभावेन विषयिणोऽप्यभावात् । न च पर्यायार्थिकोऽपि कश्चिन्नयः२५'नाम' इति प्रसिद्धार्थः-नियमेन शुद्धस्वरूपः सम्भवति, सामान्यविकलात्यन्तव्यावृत्तविशेषविषयाभावेन विषयिणोऽप्यभावात् । यदि विषयाभावाद् इमौ नयौ न स्तः यदुक्तम् 'तीर्थकरवचनसङ्ग्रह'-इत्यादि तद् विरुध्यत इत्याह-भयणाय उ विसेसो भजनायास्तु विवक्षाया एव विशेषः–'इदं द्रव्यम् अयं पर्यायः' इत्ययं भेदः तथा तद्भेदाद् विषयिणोऽपि तथैव मेद इत्यभिप्रायः । भजना च-सामान्यविशेषात्मके वस्तुतत्त्वे उपसर्जनीकृतविशेषं यद् अन्वयि३० रूपं तद् 'द्रव्यम्' इति विवक्ष्यते यदा तदा द्रव्यार्थिकविषयः, यदा तूपसर्जनीकृतान्वयिरूपं तस्यैव वस्तुनो यद् असाधारणं रूपं तद् विवश्यते तदा पर्यायनयविषयस्तद् भवतीति ॥९॥ १ परिच्छेद्यवि-आ० । २-त्वा त्युक्तम् बृ०। ३-त्ति जम्हा वा. बा०। ४-ओ णिय-बृ० । ५ पृ. २७१ पं० ७ । ६-व्यार्थवि-वा० बा० ।

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516