Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 468
________________ ४०९ नयमीमांसा । [विवक्षाकृतस्य नयद्वयविषयविवेकस्य विशदीकरणम् ] एवंरूपभजनाकृतमेव भेदं दर्शयितुमाह दव्वढियवत्तव्वं अवत्थु णियमेण पजवणयस्स। तह पन्जववत्थु अवत्थुमेव दव्वढियनयस्स ॥१०॥ पर्यायास्तिकस्य द्रव्यास्तिकाभिधेयमस्तित्वम् अवस्त्वेव मेरूपापन्नत्वात् द्रव्या-५ स्तिकस्यापि पर्यायास्तिकाभ्युपगता भेदा अवस्तुरूपा एव भवन्ति, सत्तारूपापश्नत्वात् । अतो भजनामन्तरेणैकत्र सत्तायाः अपरत्र च भेदानां नटत्वात् 'इदं द्रव्यम् एते च पर्यायाः' इति नास्ति भेदः। न च प्रतिभासमानयोर्द्रव्य-पर्याययोः कथं पर्यायास्तिक-द्रव्यास्तिकाभ्यां प्रतिक्षेपः इति वक्तव्यम् यतः प्रतिभासोऽप्रतिभासस्य वाधकः न तु मिथ्यात्वस्य; मिथ्यारूपस्यापि प्रतिभासनात्। तथाहि पर्यायास्तिकः प्राह-न मया द्रव्यप्रतिभासो निषिध्यते-तस्यानुभूयमानत्वात्-किन्तु १० विशेषव्यतिरेकेण द्रव्यस्याप्रतिभासनात् अव्यतिरेके तु व्यक्तिस्वरूपवत् तस्यानन्वयात् उभयरूपतायाश्चैकत्र विरोधात् गत्यन्तराभावात् द्रव्यप्रतिभासस्तत्र मिथ्यैव। विशेषप्रति सस्त्वन्यथा, बाधकाभावात् यतः प्रतिक्षणं वस्तुनो निवृत्ते शोत्पादौ पर्यायलक्षणं न स्थितिः। द्रव्यार्थिकस्तु भजनोत्थापितस्वरूपः प्राह-अस्माकमप्ययमेवाभ्युपगमः-न विशेषप्रतिभासप्रतिक्षेपः किन्तु तस्य भेदाभेदोभयविकल्पैर्वाध्यमानत्वाद् मिथ्यारूपतैव अभेदप्रतिभासस्तु अनुत्पाद्व्ययलक्षणस्य द्रव्यस्य १५ -तद्विषयस्य सर्वदाऽवस्थितेरबाध्यमानत्वात्-सत्य इति ॥ १०॥ २० [निरपेक्षनयद्वयमेकमेव वस्तु यथा यथा मन्यते तथा विभज्य वर्णनम् ] कल्पनाव्यवस्थापितपर्यायास्तिक-द्रव्यास्तिकयोरेवलक्षणप्रदर्शितस्वरूपयोमिथ्यारूपताप्रतिपत्तिः सुकरा भविष्यतीत्याह उप(प्प)जंति वियंति य भावा नियमेण पज्जवणयस्स । दव्वढियस्स सव्वं सया अणुप्पन्नमविणटुं ॥११॥ उत्पद्यन्ते प्रागभूत्वा भवन्ति विशेषेण निरन्वयरूपतया गच्छन्ति नाशमनुभवन्ति भावाः पदार्थाः-नियमेन इत्यवधारणे पर्यायनयस्य मतेन-प्रतिक्षणमुत्पाद-विनाशखभावा एव भावाः पर्यायनयस्यामिमताः। द्रव्यार्थिकस्य सर्व वस्तु सदा अनुत्पन्नमविनष्टम् आकालं स्थितिस्वभावमेवेति मतम् । एतच्च नयद्वयस्याभिमतं वस्तु प्राक् प्रतिपादितमिति न पुनरु-२५ च्यते ॥ ११॥ १-रूपं भ-आ०। २-ण होइ पजाए। बृ०। ३-स्तिकंद्र-आ०। ४-दस्थापन्न-बृ० वा. बा० । ५-धादिग-आ. हा०वि०। ६-भावस्त्व-आ० हा० वि०। ७-व्यास्तिक-बृ० वा. बा०। ८-कयोरेवलबृ० वा० बा० आ०। ९-स्यापि म-वा. बा० ।

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516