Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 502
________________ नयमीमांसा। ४४३ [मूलभङ्गत्रयं विवेच्य तत्समर्थकानां षोडशानामपेक्षाभेदानां व्यावर्णनम् ] तथाहि-असत्त्वोपसर्जनसत्त्वप्रतिपादने प्रथमो भङ्गः। तद्विपर्ययेण तत्प्रतिपादने द्वितीयः । द्वयोस्तु धर्मयोः प्राधान्येन गुणभावेन वा प्रतिपादने न किञ्चिद् वचः समर्थम् यतो न तावत् समा. सवचनं तत्प्रतिपादकम् नापि वाक्यं सम्भवति । समासपढ़े तावन्न बहुव्रीहिरत्र समर्थः तस्यान्यपदार्थप्रधानत्वात् अत्र चोभयप्रधानत्वात् । अव्ययीभावोऽपि नात्र प्रवर्तते तस्यात्रार्थऽसम्भवात् ।५ द्वन्द्वसमासे तु यद्यप्युभयपदप्राधान्यम् तथापि द्रव्यवृत्तिस्तावन्न प्रकृतार्थप्रतिपादकः गुणवृत्तिरपि द्रव्याश्रितगुणप्रतिपादकः द्रव्यमन्तरेण गुणानां तिष्ठत्यादिक्रियाधारत्वासम्भवात् तस्या द्रव्याश्रित. त्वान्न प्रधानभूतयोर्गुणयोः प्रतिपाद्यत्वम् । तत्पुरुषोऽपि नात्र विपये प्रवर्त्तते तस्याप्युत्तरपदार्थप्र. धानत्वात् । नापि द्विगुः सख्यावाचिपूर्वपदत्वात् तस्य । कर्मधारयोऽपि न, गुणाधारद्रव्यविषयत्वात्। न च समासान्तरसद्भावः येन युगपद् गुणद्वयं प्रधानभावेन समासपदवाच्यं स्यात् अत एव न१० वाक्यमपि तथाभूतगुणद्वयप्रतिपादकं सम्भवति तस्य वृत्त्यभिन्नार्थत्वात् । न च केवलं पदम् वाक्यं वा लोकप्रसिद्धम् नस्यापि परस्परापेक्षद्रव्यादिविषयतया तथाभूतार्थप्रतिपादकत्वायोगात् । न च "तौ सत्" [ ३।२।१२७। सिद्धान्तकौ० अं० ३१०६] इति शत-शानयोरिव सङ्केतितकपदवाच्यत्वम् विकल्पप्रभवशब्दवाच्यत्वप्रसक्तेः । विकल्पानां च युगपदप्रवृत्त.कदा तयोस्तद्वाच्यतासम्भवः । न च निजार्थान्तरैकान्ताभ्युपगमेऽप्यर्थस्य वाच्यता, तथाभूतस्य तस्यात्यन्ताऽसत्त्वात्-१५ सर्वथा सत्त्वेऽन्यतोऽव्यावृत्तत्वात् महासामान्यवद् घटार्थत्वानुपपत्तः। अर्थान्तरत्वे पररूपादिव स्वरूपादपि व्यावृत्तः खरविषाणवद असत्त्वादवाच्यतैव । न च घटत्वे घटशब्दप्रवृत्तिनिमित्त विधिरूपे सिद्धेऽसम्बद्ध एव तत्र पटाद्यर्थप्रतिषेध इति वाच्यम् पटादेस्तत्राभावाभावे घटशब्दप्रवृत्तिनिमित्तस्य घटत्वस्यैवाऽसिद्धेः। शब्दानां चार्थज्ञापकत्वं न कारकत्वमिति तथाभूतार्थप्रकाशनं तथाभूतेनैव शब्देन विधेयमिति नासम्बद्धस्तत्र पटाद्यर्थप्रतिषेधः। अथवा 'सर्व सर्वात्मकम्' इति २० सांख्यमतव्यवच्छेदार्थ तत्प्रतिषेधो विधीयते तत्र तस्य प्रतीत्यभावात् १। ____ या नाम-स्थापना-द्रव्य-भावभिन्नेषु विधित्सिताऽविधित्सितप्रकारेण प्रथम-द्वितीयौ भनौ । तत्प्रकाराभ्यां युगपद् अवाच्यम् तथाभिधेयपरिणामरहितत्वात् तस्य यतो यदि अविधित्सितरूपेणापि घटः स्यात् प्रतिनियतनामादिमेदव्यवहाराभावप्रसक्तिः तथा च विधित्सितस्यापि नारमलाम इति सर्वाभाव एव भवेत् । तथा यदि विधित्सितप्रकारेणाप्यघटः स्यात् तदा तन्निबन्धनव्यवहारो-२५ च्छेदप्रसक्तिरेव । एकपक्षाभ्युपगमेऽपि तदितराभावे तस्याप्यभाव इति अवाच्यः २। १ 'स्याद् घटः' २ 'स्याद् अघटः' ३ 'स्याद् घटश्च अघटश्च' ४ 'स्याद् अवक्तव्यः' -१-६ तत्त्वार्थराजवा० पृ. २४ वा० ५। १ "स्यादस्त्येवाखिलं यद्वत् खरूपादिचतुष्टयात्" ॥ ४९ ॥ २ "स्यानास्त्येव विपर्यासादिति कश्चिनिषेधने । ३ स्याद् द्वैतमेव तदद्वैतादित्यस्तित्व-निषेधयोः॥५०॥ ४ क्रमेण योगपद्याद्वा स्यादवक्तव्यमेव तत्" ॥५१॥ -१-६ तत्त्वार्थश्लो० वा. पृ. १२८ । १ "स्यादस्त्येव घटः। २ स्यानास्त्येव घटः। ३ स्यादस्ति नास्ति च घटः। ४ स्यादवक्तव्य एव" । -सप्तभङ्गीत. पृ. २६०२ १ शास्त्रवा० स्याद्वादक. पृ० २५. प्र. पं० ७-११। २ तस्यावृत्ताभि-वा० बा० । ३ सयापर्षभमां०। ४-नवोरिव ६० ल० वा. बा०। ५ न चानि-वृ०। ६ अत्रत्याः सत्त्वासत्त्वाऽवक्तव्यत्वसमर्थनपरा दशापेक्षाप्रकाराः तत्त्वार्थराजवार्तिके दृश्यन्ते-१.६वा०५५, पं० २१-पृ. २५ पं० १८। त एव च दश प्रकाराः प्रमेयरत्नकोशे समुद्धृताः-पृ० ५५० २३-पृ. ८५०१०। शास्त्रवार्तासमुच्चयटीकायामत्रत्याः सर्वेऽपि तथैव परिगृहीताः- पृ० २५० द्वि. पं. १४-पृ. २५२ द्वि. पं.

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516