Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 512
________________ नयमीमांसा । ४५३ [ जीव - कर्मणोरन्योन्यानुप्रवेशेन तदाश्रितज्ञानादि - रूपादीनामपि परस्परानुप्रवेशवर्णनम् ] जीव- कर्मणोरन्योन्यानुप्रवेशे तदाश्रितानामन्योन्यानुप्रवेश इत्याहरूआइपज्जवा जे देहे जीवदवियम्मि सुद्धम्मि । ते अण्णोष्णाणुगया पण्णवणिजा भवत्थम्मि ॥ ४८ ॥ रूप-रस-गन्ध-स्पर्शादयो ये पर्याया देहाश्रिता जीवद्रव्ये विशुद्धस्वरूपे च ये ज्ञाना- ५ दयस्तेऽन्योन्यानुगता जीवे रूपादयो देहे ज्ञानादय इति प्ररूपणीया भवस्थे संसारिणि अकारप्रश्लेषाद् वा असंसारिणि । न च संसारावस्थायां देहात्मनोरन्योन्यानुबन्धात् रूपादिभिस्तद्व्यपदेशः स्थायां तदभावात् नासौ युक्त इति वक्तव्यम्, तदवस्थायामपि देहाद्याश्रितरूपादिग्रहणपरिणतज्ञान- दर्शनपर्यायद्वारेणात्मनस्तथाविधत्वात् तथाव्यपदेशसम्भवात् आत्मपुन्नलयोश्च रूपादि- ज्ञानादीनामन्योन्यानुप्रवेशात् कथञ्चिद् एकत्वम् अनेकत्वं च मूर्त्तत्वम् अमूर्त्तत्वं चाव्यतिरेकात् १० सिद्धमिति ॥ ४८ ॥ [ परस्परानुप्रवेशादात्म-पुद्गलयोः कथंचिदेकत्वस्यानेकत्वस्य चोपपादनम् ] एतदेवाह - एवं "एगे आया एगे दंडे य होइ किरियां य" । करणविसेसेण यतिविजोगसिद्धी वि अविरुद्धा ॥ ४९ ॥ १५ एवं इत्यनन्तरोदितप्रकारेण मनो- वाकू - कायद्रव्याणामात्मन्यनुप्रवेशात् आत्मैव न तयति - रिक्तास्त इति तृतीयाङ्गैकस्थाने "एगे आया" [स्थाना० सू० २ पृ० १०] इति प्रथमसूत्रप्रतिपादितः सिद्धः एक आत्मा एको दण्ड एका क्रियेति भवति मनो- वाक्- कायेषु दण्ड- क्रियाशब्दौ प्रत्येकमभिसम्बन्धनीयौ करणविशेषेण च मनो-वाकू - कायस्वरूपेणात्मन्यनुप्रवेशावाप्तत्रिविधयोगस्वरूपत्वात् त्रिविधयोगसिद्धिरपि आत्मनः अविरुद्वैवेति एकस्य सतस्तस्य त्रिवि . २० धयोगात्मकत्वात् अनेकान्तरूपता व्यवस्थितैव । न चान्योन्यानुप्रवेशात् एकात्मकत्वे बाह्याभ्यन्तरविभागाभाव इति अन्तर्हर्षविषादाद्यनेकविवर्त्तात्मकमेकं चैतन्यम् बहिर्वाल-कुमार-यौवनाद्यनेकास्थैकात्मकमेकं शरीरमध्यक्षतः संवेद्यत इत्यस्य विरोधः बाह्याभ्यन्तरविभागाभावेऽपि निमित्ताम्तरतः तद्व्यपदेशसम्भवात् ॥ ४९ ॥ [ आत्म-पुद्गलयोर्वस्तुतो बाह्याभ्यन्तरविभागाभावेऽप्यभ्यन्तरव्यपदेशस्य मनोनिमित्तकत्वेन २५ समर्थनम् ] एतदेवाह - णय बाहिरओ भावो अभंतरओ य अत्थि समयस्मि । णोइंदियं पुण पहुच होइ अभंतरविसेसो ॥ ५० ॥ ३० आत्म-पुनलयोरन्योन्यानुप्रवेशात् उक्तप्रकारेण अर्हत्प्रणीतशासने न बाह्यो भावः अ-. भ्यन्तरो वा संभवति मूर्त्तामूर्त्तरूपादितयाऽनेकान्तात्मकत्वात् संसारोदरवर्त्तिनः सकलवस्तुनः। ‘अभ्यन्तरः' इति व्यपदेशस्तु नोइन्द्रियं मनः प्रतीत्य तस्यात्मपरिणतिरूपस्य पराप्रत्यक्षत्वात् शरीर - वाचोरिव । न च शरीरात्मावयवयोः परस्परानुप्रवेशात् शरीरादभेदे आत्म १-स्थायां तद्-मां० आ० । २ "एगे आया। एगे दंडे । एगा किरिया " - स्थाना० सू० २-३-४५० १० तथा १३ । ५० स० त०

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516