Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 511
________________ ४५२ प्रथमे काण्डे"सामान्यप्रत्यक्षात् विशेषाप्रत्यक्षात् विशेषस्मृतेश्च संशयः" [ वैशेषिकद० २, २, १७ ] इति निमित्तमस्ति । न च व्यधिकरणतादोपासक्तिरपि घटकपालविनाशोत्पादयोर्मुद्रव्याधिकरणतया प्रतिपत्तेः । न चोभयदोपानुषङ्गः व्यात्मकस्य वस्तुनो जात्यन्तरत्वात् । सङ्करदोषप्रसक्तिरपि नास्ति अनुगतव्यावृत्त्योस्तदात्मके वस्तुनि स्वस्वरूपेणैव प्रतिभासनात् । अनवस्थादोषोऽपि न सम्भवी ५भिन्नोत्पाद-व्यय-ध्रौव्यव्यतिरेकेण तदात्मकस्य वस्तुनोऽध्यक्षे प्रतिभासनात् स्वयमतदात्मकस्यापरयोगेऽपि तदात्मकतानुपपत्तेरन्यथाऽतिप्रसङ्गात् । तथाप्रतिभासादेव अभावदोषोऽपि न सम्भवी अबाधितप्रतिभासस्य तदभावे अभावात् भावे वा न ततो वस्तुव्यवस्थितिरिति सर्वव्यवहारोच्छेदप्रसक्तिः। न च च्यात्मकत्वमन्तरेण घटस्य कपालदर्शनाद् विनाशानुमान सम्भवति तत्र तेषां प्रतिबन्धानवधारणात् नहि तद्विनाशनिमित्तानि तानि मुद्गरादिहेतुत्वात् अभावस्य कारण १०स्वाभावाच्च । यद्यपि घटहेतुकानि तानि तथापि घटसद्भावमेव गमयेयुर्न तदभावम् नहि धूमः पावक हेतुकस्तदभावगमक उपलब्धः। न चाभिन्ननिमित्तजन्यता तयोः प्रतिबन्धः अभावस्याऽकार्यत्वाभ्युपगमात् । नापि तादात्म्यलक्षणः तयोस्तादात्म्यायोगात् । न च घटस्वरूपव्यावृत्तत्वात् तेषां तदभावप्रतिपत्तिजनकत्वम् सकल त्रैलोक्याभावप्रतिपत्तिजनकत्वप्रसक्तेः तेषां ततोऽपि व्यावृत्त. स्वरूपत्वात् । न च घटविनाशरूपत्वात् तेषां नायं दोषः तेषां वस्तुरूपत्वात् विनाशस्य च निःस्व१५भावत्वात् तथा च तादात्म्यविरोधः अन्यथा घटानुपलम्भवत् तेषामपि तदाऽनुपलब्धिर्भवेत् तस्मात् प्रागभावात्मकः सन् घटः प्रध्वंसाभावात्मकतां प्रतिपद्यत इत्यभ्युपगन्तव्यम् अन्यथा पूर्वोक्तदोषानतिवृत्तिः । सत्त्वलक्षणस्यापि हेतोर्गमकत्वमनेनैव प्रकारेण सम्भवति अन्यथा उत्पत्त्यभावात् स्थित्यभावः तदभावे विनाशस्याप्यभावः असतो विनाशायोगादिति व्यात्मकमेकं वस्त्व. भ्युपगन्तव्यम् अन्यथा तदनुपपत्तेरिति प्राक् प्रदर्शितत्वान्न पुनरुच्यते । यथा चात्मनः परलोकगा२०मित्वम् शरीरमात्रव्यापकत्वं च तथा प्रतिपादितमेव । ननु शरीरमात्रव्यापित्वे तस्य गमनाभावाद् देशान्तरे तहुणोपलब्धिर्न भवेत् , न; तदधिष्ठितशरीरस्य गमनाविरोधात् पुरुषाधिष्ठितदारुयन्त्रवत् । न च मुर्तामृर्तयोर्घटाकाशयोरिव प्रतिवन्धाभावात् मूर्त्तशरीरगमनेऽपि नामूर्तस्यात्मनो गमनमिति वक्तव्यम्, संसारिणस्तस्यैकान्तेनामूर्तत्वासिद्धेस्तत्प्रतिबद्धत्वाभावासिद्धेः॥४६॥ [जल-दुग्धदृष्टान्तेन जीव-कर्मणोरविभागकथनम् ] एतदेवाह अण्णोण्णाणुगयाणं 'इमं व तं व' त्ति विभयणमजुत्तं । जह दुद्ध-पाणियाणं जावंत विसेसपज्जाया ॥ ४७॥ अन्योन्यानुगतयोः परस्परानुप्रविष्टयोः आत्म-कर्मणोः 'इदं वा तद् वा' इति 'इदं कर्म अयमात्मा' इति यद् विभजनं पृथक्करणं तद् अयुक्तम् अघटमानकम् प्रमाणाभावेन ३० कर्तुमशक्यत्वात् । यथा दुग्ध-पानीययोः परस्परप्रदेशानुप्रविष्टयोः । किंपरिमाणोऽयमविभागो जीवकर्मप्रदेशयोः? इत्याह-यावन्तो विशेषपर्यायास्तावान् । अतः परमवस्तुत्वप्रसक्तेः अन्त्यविशेषपर्यन्तत्वात् सर्वविशेषाणाम् 'अन्त्य' इति विशेषणान्यथानुपपत्तेः ॥ ४७ ॥ १ "समानानेकधर्मोपपत्तेर्विप्रतिपत्तरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः"-१, १, २३ न्यायद० पृ. ४५। २-दोषाप्रसक्ति-वा. बा. भां० मा०। ३ यथा वात्म-आ० विना। ४ पृ. ७२ पं० ३ तथा पृ. १३४ पं० ३१। ५-स्तावन्तः पर-भां० मा०।

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516