Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 515
________________ ४५६ प्रथमे काण्डेपएसे अणंतेहिं णाणावरणिजपोग्गलेहिं आवेढियपवेढिए"[ ] इति तीर्थकवचने प्रमा. णोपपन्ने सत्यपि __"नामूर्त मूत्ततामेति मूर्त नायात्यमूर्तताम् । द्रव्यं कालत्रयेऽपीत्थं च्यवते नात्मरूपतः" ॥[ इति। ५ तीर्थक्रम्मतमेवैतन्नयवादनिरपेक्षमिति कैश्चित् प्रतिपादयद्भिस्तस्याधिक्षेपप्रदानात् ॥ ५३॥ [ स्याद्वादशः अधिकारिविशेषे सति निरपेक्षनयद्वयाश्रितान्यपि वासि प्रयुञ्जानो न दोषभागिति प्रथनम्] परस्परनिरपेक्षयोरनयोः प्रज्ञापना तीर्थकरासादना इत्यस्यापवादमाह पुरिसजायं तु पडुच जाणओ पण्णवेज अण्णयरं । परिकम्मणाणिमित्तं दाएही सो विसेस पि ॥५४॥ पुरुषजातं प्रतिपन्नद्रव्यपर्यायान्यतरस्वरूपम् श्रोतारं वा प्रतीत्य आश्रित्य ज्ञक: स्थाद्वादवित् प्रज्ञापयेत् आचक्षीत अन्यतरत् पर्यायम् द्रव्यं वा-अभ्युपेतपर्यायाय द्रव्यमेव, अङ्गीकृतद्रव्याय च पर्यायमेव कथयेत् । किमित्येकमेव कथयेत्? परिकर्मनिमित्तं बुद्धिसंस्का रार्थम् । परिकर्मितमतये दर्शयिष्यत्यसौ स्याद्वादाभिशः विशेषमपि द्रव्य-पर्याययोः पर१५ स्पराविनिर्भागरूपमेकांशविषयविज्ञानस्यान्यथा विपर्ययरूपताप्रसक्तिः स्यात् तदितराभावे तद्विषयस्याप्यभावात् ॥ ५४॥ इति तत्त्वबोधविधायिन्यां सम्मतिटीकायां प्रथमकाण्डम् ॥ १ "परः शङ्कते” इति निर्दिश्य समुद्धृतमिदं पद्यमित्थम्__ “नामूर्त मूर्ततां याति मूर्त नायात्यमूर्तताम् । यतो बन्धाद्यतो न्यायादात्मनोऽसंगतं तया ॥४१॥-शास्त्रवा० समु० स्तब ३ । १सन्मति-बृ० वा. बा।संमति-ल. भा. भा०। ३ प्रथम काण्डं बृ०।

Loading...

Page Navigation
1 ... 513 514 515 516