Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 514
________________ नयमीमांसा | [निरपेक्षयोर्द्रव्यास्तिक-पर्यायास्तिकयोर्मतेन यथा यथा कर्मबन्धस्तत्फलप्ररूपणा भवति तथोपवर्णनम् ] ४५५ अस्य च मिथ्यात्वादिपरिणतिवशोपात्तपुद्गलाङ्गाङ्गिभावलक्षणो वन्धः तद्वशोपनतसुख-दुःखा धनुभवस्वरूपश्च भोगः अनेकान्तात्मकत्वे सत्युपपद्यते अन्यथा तयोरयोग इति प्रतिपादनार्थमाहCoastस इत्यादि । ५ अथवा परस्परसापेक्षद्रव्यास्तिक-पर्यायास्तिकयोः प्ररूपणा प्रदर्शितन्यायेन सम्भविनी निरपे क्षयोः कथं सा ? इत्याह व्वद्वियस्स आया बंधइ कम्मं फलं च वेएइ । बीयस भावमेत्तं ण कुणइ ण य कोइ वेएइ ॥ ५१ ॥ द्रव्यास्तिकस्येयं प्ररूपणा - आत्मा एकः स्थायी कर्म ज्ञानादिविबन्धकं बघ्नाति १० स्वीकरोति तस्य कर्मणः फलं च कार्यरूपं वेदयते भुङ्क्ते आत्मैव । द्वितीयस्य तु पर्यायार्थिकस्येयं प्ररूपणा - नैवात्मा स्थाय्यस्ति किन्तु भावमात्रं विज्ञानमात्रमिति न करोति न च कश्चिद् वेदयते उत्पत्तिक्षणानन्तरध्वंसिनः कर्तृत्वाऽनुभवितृत्वायोगात् ॥ ५१ ॥ तथेयमपि तयोस्तथाभूतयोः प्ररूपणेत्याह १५ दव्वट्ठियस्स जो चैव कुणइ सो चेव वेयए णियमा । tort करे अण्णो परिभुंजइ पज्जवणयस्स ॥ ५२ ॥ य एव करोति स एव वेदयते नित्यत्वात् द्रव्यास्तिकस्यैतन्मतम् । अन्यः करोत्यन्यश्च भुङ्क्ते क्षणिकत्वात् पर्यायनयस्य । ननु पूर्व गाथोक्तमेव पुनरभिदधता पिष्टपेषणमाचार्येण कृतं भवेत्, नः उत्पत्तिसमनन्तरध्वस्तेन करणम् भोगो वा सम्भवीति प्राक् प्रतिपादितम् इह तु उत्पत्तिक्षण एव कर्त्ता तदनन्तरक्षणश्च भोक्तेति न पुनरुकता। उक्तं च परैः - २० "भूतिर्येषां क्रिया सैव कारकं सैव वोच्यते " [ ] इति ॥ ५२ ॥ [सापेक्षनयद्वयाश्रितानामेव कथंचित्पदाङ्कितानां वचसां स्वसमयप्ररूपणात्वं नान्येषामित्यभिधानम् ] इयमसंयुक्तयोरनयोः स्वसमयप्ररूपणा न भवति या तु स्वसमयप्ररूपणा तामाहजिविया संजुजंतेसु होन्ति एएसु । सा ससमयपण्णवणा तित्थयराऽऽसायणा अण्णा ॥ ५३ ॥ ये वचनीयस्यामिधेयस्य विकल्पास्तत्प्रतिपादका अभिधानभेदाः संयुज्यमानयोरम्योन्यसम्बद्धयोर्भवन्त्यनयोर्द्रव्यास्तिक-पर्यायास्तिकवाक्यनययोः । ते च - 'कथंचिन्नित्य आत्मा कथञ्चिदमूर्त्तः' इत्येवमादयः । सा एषा स्वसमयस्येति तदर्थस्य प्रज्ञापना निदर्शना अन्या तु ३० निरपेक्षयोरनयोरेव नययोर्या प्ररूपणा सा तीर्थकरस्यासादनाऽधिक्षेपः । “एगैमेगेणं जीवस्स २५ १ " क्षणिकाः सर्व संस्कारा अस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव कारकं सैव चोध्यते " ॥ - बोधिचर्यावता ० प्रज्ञापार पञ्जि० परि० ९ पृ० ३७६ पं० २२, २, २० ब्रह्म० भामती पृ० ५३१ । रत्नाकराव० परि० १-१५ पृ० २९ पं० १४ । स्याद्वादमञ्ज० श्लो० १६ पृ० १३८ पं० ७ आ० । मध्यमकवृ० पृ० ११६ टि० १ । २ प्र० - " एगमेगस्स णं भंते ! जीवस्स एगमेगे जीवपएसे णाणावरणिज्जस्स कम्मस्स केवइएहिं अविभागपलिच्छेदेहिं आवेढिए परिवेढिए सिया ? उ०- गोयमा ! सिय आवेढियपरिवेढिए सिय नो आवेढियपरिवेढिए । जब आवेढियपरिवेढिए नियमा अनंतेहि” । - भगवती • शत० ८ उद्दे० १० सू० ३५९ ।

Loading...

Page Navigation
1 ... 512 513 514 515 516