Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 513
________________ ४५४ प्रथम काण्डेनोऽपि तद्वत् परप्रत्यक्षताप्रसक्तिः इन्द्रियज्ञानस्याशेषपदार्थस्वरूपग्राहकत्वायोगादित्यस्य प्रतिपा. दयिप्यमाणत्वात् अतः 'शरीरप्रतिबद्धत्वमात्मनो न भवति अमूर्त्तत्वात् अत्र प्रयोगे हेतुरसिद्धः। यदि चात्मपरिणतिरूपमनसः शरीरादात्यन्तिको भेदः स्यात् तद्विकाराऽविकाराभ्यां शरीरस्य तत्त्वं न स्यात तदुपकारापकाराभ्यां वा आत्मनः सुख-दुःखानुभवश्च न भवेत् शरीरविघातकृतश्च ५हिंसकत्वमनुपपन्नं भवेत् शरीरपुष्टयादेः रागाद्युपचयहेतुत्वम् शरीरस्य 'कृशोऽहं स्थूलोऽहम्' इति प्रत्ययविषयत्वं च दूरोत्सारितं भवेत् । पुरुषान्तरशरीरस्येव घटाकाशयोरपि प्रदेशान्योन्यप्रवेशलक्षणो बन्धोऽस्त्येवेत्ययुक्तो दृष्टान्तः अन्यथा घटस्यावस्थितिरेव न भवेत् । न चान्योन्यानुप्रवेश. सद्भावेऽप्याकाशवत शरीरपरतन्त्रता आत्मनोऽनुपपन्ना, मिथ्यात्वादेः पारतन्यनिमित्तस्यात्मनि भावात् आकाशे च तदभावात् । न च शरीरायत्तत्वे सति तस्य मिथ्यात्वादिबन्धहेतुभिर्योगः १० तस्माश्च तत्प्रतिबद्धत्वम् इतीतरेतराश्रयत्वम् अनादित्वाभ्युपगमेनास्य निरस्तत्वात् । न च शरीरसम्बन्धात् प्राग् आत्मनोऽमूर्त्तत्वम् सदा तैजस-कार्मणशरीरसम्बन्धित्वात् संसारावस्थायां तस्य अन्यथा भवान्तरस्थूलशरीरसम्बन्धित्वायोगात् पुद्गलोपष्टम्भव्यतिरेकेणोर्ध्वगतिस्वभावस्यापरदिग्गमनासम्भवात् स्थूलशरीरेणातिसूक्ष्मस्य रज्वादिनेवाकाशस्य सम्बन्धायोगात् संसारिश न्यमन्यथा जगत् स्यादिति संसार्यात्मनः सूक्ष्मशरीरसम्बन्धित्वं सर्वदाभ्युपगन्तव्यम् । १५ अथ शरीरात्मनोस्तादात्म्ये शरीरावयवच्छेदे आत्मावयवस्यापि छेदप्रसक्तिः अच्छेदे तयो भेदप्रसङ्गः, न; कथञ्चित् तच्छेदस्याभ्युपगमात् अन्यथा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर्न भवेत् । न च छिन्नावयवानुप्रविष्टस्य पृथगात्मत्वप्रसक्तिः, तत्रैव पश्चादनुप्रवेशात् छिन्ने हस्तादौ कम्पादितल्लिङ्गादर्शनादियं कल्पना। न चान्यत्र गमनात् तस्य तल्लिङ्गानुपलब्धिः एकत्वादात्मनः शेषस्यापि तेन सह गमनप्रसक्तेः । न चैकत्र सन्ततावनेक आत्मा अनेकज्ञानावसेयानामेकत्रानुभ२० वाधारेऽप्रतिभासप्रसक्तेः शरीरान्तरव्यवस्थितात्मान्तरवत् । न च पृथग्भूतहस्ताद्यवयवस्थितोऽसौ तत्रैव विनष्ट इति कल्पनापि युक्तिसंगता, शेषस्याप्येकत्वेन तद्वद् विनाशप्रसक्तेः ततोऽन्यत्राऽगतेः तत्रासत्त्वात् अविनष्टत्वाश्च तदनुप्रवेशोऽवसीयते गत्यन्तराभावात्। न चैकत्वे आत्मनो विभागाभावाच्छेदाभाव इति वक्तव्यम् , शरीरद्वारेण तस्यापि सविभागत्वात् अन्यथा सावयवशरीरव्यापिता तस्य कथं भवेत् ? न चारभ्यमूर्त्तद्रव्यावच्छिन्नावयवस्य(?) सर्वदैव तेस्य तथाभावः-उत्तरकालमपि २५ तदवयवोपष्टम्भोपलब्धस्यार्थस्य तथैव स्मरणात् अन्यत्वे चैतदर्शनात् । न चासावारभ्यमूर्चद्रव्यवद् घणुकादिप्रक्रमेणावस्थितसंयोगैस्तैरारब्धः येन तद्वत् तस्य तथैव भावप्रसक्तिः । न चानारब्धत्वात् तस्य निरवयवत्वम् शरीरसर्वगतत्वाभावप्रसक्तेः । न च शरीराऽसर्वगतोऽसौ, तत्र सर्वत्रैव स्पर्शोपलम्भात् । न तद्व्यापकस्य तच्छेदे छेदः अतिप्रसङ्गात् । न च तदवयवच्छेदे न छिन्नः तत्र कम्पाद्युपलब्धेः अतस्तत्रैवानुप्रविष्ट एकत्वादिति ज्ञायते । कथं छिन्नाच्छिन्नयोः संघटनं पश्चादिति ३० चेत् ? न; एकान्तेन छेदाभावात् पद्मनालतन्तुवदविच्छेदाभ्युपगमात् संघटनमपि तथाभूतादृष्टवशा. दविरुद्धमेव । न चात्मनः शरीरमात्रव्यापकत्वे अन्यत्र शरीरान्तरसम्बन्धान्यथानुपपत्त्या गतिक्रिया. प्रसक्तेरनित्यत्वप्रसक्तिर्दोषः, कथंचित् तस्येष्टत्वात् गृहान्तर्गतप्रदीपप्रभावत् संकोच-विकाशात्मकत्वेन तस्य न्यायप्राप्तत्वात् । न च देहात्मनोरन्योन्यानबद्धत्वे देहभस्मसाद्भावे आत्मनोऽपि तथा. त्वप्रसक्तिः, क्षीरोदकवत् तयोर्लक्षणमेदतो भेदात् । नहि भिन्नस्वरूपयोरन्योन्यानुप्रवेशे सत्यप्येक३५क्षयेऽपरस्य क्षयः यथा क्वाथ्यमाने क्षीरे प्रथममदकक्षयेऽपि न क्षीरक्षयः। न चेह लक्षणमेदो नास्ति। तथाहि-रूप-रस-गन्ध-स्पर्शादिधर्मवन्तः पुद्गलाः चेतेनालक्षणश्चात्मेति सिद्धस्तयोर्लक्षणभेदः। यथा चैकान्तामूर्त्तादिरूपत्वे अर्थक्रियादेर्व्यवहारस्याभावस्तथा प्रतिपादितमनेकधेति मूर्त्तामूर्ताद्यनेकान्तात्मकत्वमात्मनोऽभ्युपगन्तव्यम् ॥५०॥ १ यदि वा-वा. बा. आ०। २ तस्या तथा-दा। प्रमेयक० पृ.-१७१ प्र०-पृ. १७६ द्वि० । रक्षाकराव. परि० ७, ५६ पृ. १४९ पं० २४-पृ० १५३ । स्याद्वादमज० श्लो. ९ पृ. ५९-६६ आ० । शास्त्रवा० समु. स्तब० ३ श्लो. ३२ स्याद्वादक० पृ. १११। ३-था वचाप्यमा-मां० ।-था कथ्य-चा. मा० । ४ "पर्श-रस-गन्ध-वर्णवन्तः पुद्रलाः"-तत्त्वार्थ. भ. ५ सू० २७ । ५ "उपयोगो लक्षणम्"तत्वार्य. भ.१००।

Loading...

Page Navigation
1 ... 511 512 513 514 515 516