Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 510
________________ नयमीमांसा | इति तथा बन्ध-मोक्ष सुख-दुःखप्रार्थना तत्साधनोपादानपरित्यागद्वारेण भेदाभेदात्मकस्यैव जीवद्रव्यस्य भवति बालाद्यात्मक पुरुषद्रव्यवत् । न च जीवस्य पूर्वोत्तरभवानुभवितुरभावाद् बन्ध-मोक्षभावाभावः उत्पाद-व्यय- ध्रौव्यात्मकस्य तस्यानाद्यनन्तस्य प्रसाधितत्वात् । [ उत्पाद-व्यय-धौव्यात्मकतया जीवतत्त्वस्य साधनम् ] तथाहि - मरणचित्तं भाव्युत्पादस्थित्यात्मकम् मरणचित्तत्वात् जीवदवस्थाविनाशचित्तवत् ५ जन्मादौ चित्तप्रादुर्भावोऽतीतचित्तस्थितिविनाशात्मकः चित्तप्रादुर्भावत्वात्, मध्यावस्थाचित्तप्रादुर्भाववत् अन्यथा तस्याप्यभावप्रसक्तिः, न चास्याभाव: हर्षविषादाद्यनेकविवर्त्तात्मकस्यानन्यवेद्यस्यान्तर्मुखाकारतया स्वसंवेदनाध्यक्षतः शरीरवैलक्षण्येनानुभूतेः । न च तथाप्रतीयमानस्याप्यभावः शरीरादेरपि बहिर्मुखाकारतया प्रतीयमानस्याभावप्रसक्तेः । न च नित्यैकान्तरूपे आत्मनि जन्म-मरणे अपि संभवतः कुतो बन्धमोक्षप्रसक्तिः ? न च नित्यस्याप्यात्मनोऽ- १० भिनवबुद्धिशरीरेन्द्रियैर्योगो जन्म तद्वियोगो मरणमिति कल्पना सङ्गता अस्याः पूर्व निषिद्धत्वात् । न चैकान्तोत्पाद - विनाशात्मके चित्ते इहलोक - परलोकव्यवस्था बन्धादिव्यवस्था वा युक्ता यत ऐहिककाय त्यागेनाऽऽमुष्मिकतदुपादानमेकस्य परलोकः पूर्वग्रामपरित्यागावाप्ततदन्तरैकपुरुषवत् । न च दृष्टान्तेऽप्येकत्वमसिद्धम् उभयावस्थयोस्तस्यैकत्वेन प्रतिपत्तेः । न चेयं मिथ्या बाधकाभावात् विरुद्धधर्मसंसर्गादेर्वाधकस्याध्यक्ष वाधादिना निरस्तत्वात् । न च पूर्वावस्थात्याग एकस्योत्तरावस्थोपादा- १५ नमन्तरेण दृष्टः पृथुवुनोदराद्याकारविनाशवत् मृद्रव्यस्य कपालोपादानमन्तरेण तस्यादर्शनात् । न च कपालोत्पादमन्तरेण घटविनाश एव न सिद्धः घट-कपालव्यतिरेकेणापरस्य नाशस्याप्रतीतेरिति वक्तव्यम् कपालोत्पादस्यैव कथञ्चिद् घटविनाशात्मकतया प्रतिपत्तेः अत एव सहेतुकत्वं विनाशस्य कपालोत्पादस्य सहेतुकत्वात् । न च कपालानां भावरूपतैव केवला घटानिवृत्तौ तद्विविक्ततायास्तेष्वभावप्रसक्तेः । न चैकस्योभयत्र व्यापारविरोधः दृष्टत्वात् । न च घटनिवृत्ति-कपालयोरेका- २० न्तेन भेदः कथञ्चिदेकत्वप्रतीतेः । न च मुद्गरादेर्नाशं प्रत्यव्यापारे क्वचिदप्युपयोगः कपालेषु न तदुपयोगः अन्त्यावस्थायामपि घटक्षणान्तरोत्पत्तिप्रसक्तेः । तस्य तदुत्पादनसामर्थ्याविनाशात् तस्य स्वरसतो विनाशात् तदव्यतिरिक्त सामर्थ्यस्यापि विनाशः, नः पूर्व तद्विनाशेऽपि तस्याविनाशात् विरोधिमुद्गरसन्निधानात् समानजातीयक्षणान्तरं न जनयतीति चेत्, न; 'घटविरोधी न च तं विनाशयति' इति व्याहतत्वात् । न च तद्धेत्वभावात् सामर्थ्याभावः तथाविधकार्य जनन समर्थहेतोर्भावात् २५ अन्यथा प्रागपि तथाविधफलोत्पत्तिर्न भवेत् । न च स्वहेतु निर्वर्त्तित एव दण्डादिसन्निधौ सामर्थ्याभावः दण्डादिसन्निधिमपेक्षमाणस्य तस्य तद्धेतुत्वोपपत्तेः अन्यत्रापि तद्भावस्य तन्मात्रनिबन्धनत्वात् । न च तयापारानन्तरं तदुपलम्भात् तस्य तत्कार्यत्वे मृद्रव्यस्यापि तत्कार्यताप्रसक्तिः तस्य सर्वदोपलम्भात्, सर्वदा तस्यानभ्युपगमे उत्पाद - विनाशयोरभावप्रसक्तिश्चेति प्रतिपादितत्वाच्च । तस्यैव तद्रूपतया परिणतौ कथञ्चिदुत्पादस्यापीष्टत्वात् । यदा च पूर्वोत्तराकारपरित्यागोपादानतयैकं मृदा- ३० दिवस्त्वध्यक्षतोऽनुभूयते तदा तत् तदपेक्षया कारणम् कार्यम् विनष्टम् अविनष्टं च उत्पन्नम् अनुत्पन्नं च एककालम् अनेककालं च भिन्नम् अभिन्नं चेति कथं नाभ्युपगमविषयः ? तथा ४५१ न चात्र विरोधः मृदव्यतिरिक्ततया घट - कपालयोरुत्पन्नविनष्टस्थितिस्वभावतया प्रतीतेः । न च प्रतीयमाने वस्तुस्वरूपे विरोधः अन्यथा ग्राह्यग्राहकाकाराभ्यामेकत्वेन स्वसंवेदनाध्यक्षतः प्रतीयमानस्य संवेदनस्य विरोधप्रसक्तेः । न च संशयदोषप्रसक्तिरपि उत्पत्ति-स्थिति-निरोधानां ३५ निश्चितरूपतया वस्तुन्यवगमात् । न च ' स्थाणुर्वा पुरुषो वा' इति प्रतिपत्ताविव प्रकृतनिश्चये १- मपु- मां० । २ पृ० ७८ पं० २४ । ३ भावाव्यु -ल० विना । ४-दभ्युप- वृ० ल० वा० बा० । - दप्यभ्यु - आ० । ५- नाशोऽपि वृ० ल० विना । धानात्र स-वा० वा० । परिहारोऽन्यत्र - प्रमेयक० पृ० १५६ ६- धानान्न स बृ० । ७ एकान्तवादिना अनेकान्तवादे समुद्भावितानां विरोधादीनामष्टानां दोषाणां प्र० । स्याद्वादमञ्ज • श्लो० २४ पृ० १९७ आ०। सप्तभङ्गीत० पृ० ८१ । ८- सक्तिरिति उत्प- वा० वा० । ९न्यधिग वृ० ।-न्य विग - वा० बा० ।

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516