Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 508
________________ ४४९ नयमीमांसा। जह दवियमप्पियं तं तहेव अत्थि त्ति पजवणयस्स । ण य स समयपन्नवणा पजवणयमेत्तपडिपुण्णा ॥४२॥ यथा वर्तमानकालसम्बन्धितया यद् द्रव्यमर्पितं प्रतिपादयितुमभीष्टं तत् तथैवास्ति नान्यथा अनुत्पन्न-विनष्टतया भावि-भूतयोरविद्यमानत्वेनाप्रतिपत्तेः अप्रतीयमानयोश्च प्रतिपादयितुमशक्तेरतिप्रसङ्गाद् वर्तमानसम्बन्धिन एव तस्य प्रतीतेः इति पर्यायार्थिकनयवाक्यस्या-५ भिप्रायः। एतद् अनेकान्तवादी दूषयितुमाह-न इति प्रतिषेधे, स इति तथाविधो वाक्यनयः परामृश्यते समय इति सम्यग् ईयते परिच्छिद्यत इति समयोऽर्थस्तस्य प्रज्ञापना प्ररूपणा पर्यायनयमात्रे द्रव्यनयनिरपेक्षे पर्यायनये प्रतिपूर्णा पुष्कला सम्पद्यते । न स वाक्यनयः सम्यगर्थप्रत्यायनां पूरयतीति यावत् पर्यायनयस्य सावधारणकान्तप्रतिपादनरूपस्याध्यक्षबाधनात् तद्बाधां चाग्रतः प्रतिपादयिष्यति ॥४२॥ __ [ केवलद्रव्यार्थिकनयमतस्य प्रदर्शनम् ] द्रव्यार्थिकवाक्यनयेऽप्ययमेव न्याय इति तदभिप्राय तावदाह पडिपुण्णजोव्वणगुणो जह लजइ बालभावचरिएणं । कुणइ य गुणपणिहाणं अणागयसुहोवहाणत्थं ॥ ४३ ॥ प्राप्तयौवनगुणः पुरुषो लज्जते बालभावसंवृत्तात्मीयानुष्ठानस्मरणात् 'पूर्वमहमप्यस्पृ-१५ श्यसंस्पर्शादिव्यवहारमनुष्ठितवान्' यथा इत्युदाहरणार्थो गाथायामुपन्यस्तः यथैव ततोऽतीत-वर्त्तमानयोरेकत्वमवसीयते । करोति च गुणेषु उत्साहादिषु प्रणिधानमैकाग्र्यम् अनागतं यत् सुखं तस्योपधानं प्राप्तिस्तस्यै तदर्थम् ‘मयैतस्मात् सुखसाधनात् सुखमाप्तव्यम्' इति । यतश्चैवमतोऽनागत-वर्तमानयोरैक्यम् ॥ ४३ ॥ [ केवलद्रव्यार्थिकनयमतस्याप्यपूर्णत्वमिति प्रदर्शनेन वस्तुनो भेदाभेदरूपत्वसूचनम्] अत्रापि मते यथावस्थितवस्तुस्वरूपप्ररूपणा न प्रतिपूर्यत इति सूत्रान्तरेण दर्शयति २० १-यमेत्तिप-बृ० वा. बा० ।-यमित्तिप-ल. मां० आ० । २ वर्तमानं का-मां० । ३-कालंसम्ब-बृ० भां. मां आ० हा०वि०। ४ साधारणे-वृ० ल. । ५ "तदिदं लोकानुभवतोऽपि साधयन्नाहलज्जते बाल्यचरितैर्बाल एव न चापि यत् । युवा न लज्जते चान्यस्तैरायत्यैव चेष्टते" ॥२९॥ "लजते बाल्यचरितैः चौर्याऽसंस्पृश्यस्पर्शक्रीडादिभिः अतो बाल एवं युवा 'अहमेव पूर्व चौर्यादि अनुष्ठितवान्' इति लजानिबन्धनाऽभेदप्रत्यभिज्ञानाद् बाल-यूनोरभेदसिद्धेः । न चापि एकान्तः बाल एव यद् यस्माद् युवा, एवं हि 'अयमिदानी युवा न बालः' इति भेदप्रतिभासो नानुरुद्धः स्यात् । न च बालखभावापरित्यागे युवखभावपरिग्रहोऽपि स्यात् उत्तरखभावे पूर्वखभावपरित्यागस्य हेतुत्वात् । न च तत्काले यूनि बालसामान्यभेद एव 'इदानीं युवा न बालः' इतिप्रतीतेरिति वाच्यम् , यतो न चान्यः भिन्नसंतानान्तरयुवा तैः बाल्यचरितैः लज्जते अतस्तत्र न तत्संतानीयबालभेद एव । तदेवमतीत-वर्तमानयोर्भेदाभेदो भावितः। एवमनागत-वर्तमानयोरपि, यत आयत्यैव वार्धके सुखहेतुधनाद्यर्थमेव चेष्टते । अतो युव-वृद्धयोरभेदः । नहि अन्योऽन्यार्थ चेष्टत इति" ॥ २९ ॥ शास्त्रवा० समु० स्तब० ७, स्याद्वादक० पृ० २५७ द्वि०। ६ गुणेष्टत्सा-वा. बा० । गुणेष्ट उत्सा-ल. । गुणेषु तु उत्सा-भां० मां।

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516