Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 506
________________ नयमीमांसा। ४४७ ययोर्भङ्गकयोः परस्पराविशेषणभूतयोः प्रतिपाद्येनाधिगन्तुमिष्टत्वात् प्रतिपादकेनापि तथैव विवक्षितत्वात् अत्र तु तद्विपर्ययात् अनन्तधर्मात्मकस्य धर्मिणः प्रतिपाद्यानुरोधेन तथाभूतधर्माकान्तत्वेन वक्तुमिष्टत्वात् तद् द्रव्यमस्ति च अवक्तव्यं च भवति तद्धर्मविकल्पनवशात् धर्मयोस्तथापरिणतयोस्तथाव्यपदेशे धर्म्यपि तेद्वारेण तथैव व्यपदिश्यते ॥ ३८॥ [षष्ठभङ्गप्रदर्शनम्] षष्ठभङ्ग दर्शयितुमाह आइट्ठोऽसब्भावे देसो देसो य उभयहा जस्स । तं णत्थि अवत्तव्वं च होइ दवियं वियप्पवसा ॥ ३९॥ यस्य वस्तुनो देशोऽसत्त्वे निश्चितः 'असन्नेवायम्' इत्यवक्तव्याविद्धः अपरश्वासदनुविद्ध उभयथा 'सन्नसंश्च' इत्येवं युगपनिश्चितस्तदा तद् द्रव्यं नास्ति च अवक्तव्यं च भवति १० विकल्पवशात् तद्यपदेश्यावयववशात् द्रव्यमपि तद्यपदेशमासादयति। केवलद्वितीयतृतीयभङ्गकव्युदासेन षष्ठभङ्गः प्रदर्शितः ॥ ३९ ॥ [सप्तमभङ्गप्रकाशनम् ] सप्तमप्रदर्शनायाह सब्भावाऽसब्भावे देसो देसो य उभयहा जस्स। तं अस्थि णत्थि अवत्तव्वयं च दवियं वियप्पवसा ॥ ४० ॥ यस्य देशिनो देशोऽवयवः देशो धर्मो वा सद्भाव नियतो निश्चितः अपरस्तु असद्भावे असत्वे तृतीयस्तु उभयथा इत्येवं देशानां सदसवक्तव्यव्यपदेशात् तद् अपि द्रव्यमस्ति च नास्ति चावक्तव्यं च भवति विकल्पवशात् तथाभूतविशेषणाध्यासितस्य द्रव्यस्यानेन प्रतिपादनादरभङ्गव्युदासः। एते च परस्पररूपापेक्षया सप्तभङ्गयात्मकाः प्रत्येकं स्वार्थ प्रतिपादयन्ति २० नान्यथेति प्रत्येकं तत्समुदायो वा सप्तभङ्गात्मकः प्रतिपाद्यमपि तथाभूतं दर्शयतीति व्यवस्थितम् ।। ___अत्र चाद्यभङ्गकस्त्रिधा, द्वितीयोऽपि विधैव, तृतीयो दशधा, चतुर्थोऽपि दशधैव, पञ्चमादयस्तु त्रिंशदधिकशतपरिमाणाः प्रत्येकं श्रीमन्मल्लवादिप्रभृतिभिर्दर्शिताः। पुनश्च षड्विंशत्यधिकचतुर्दशशतपरिमाणास्त एव च यादिसंयोगकल्पनया कोटीशो भवन्तीत्यभिहितं तैरेव । अत्र तु ग्रन्थविस्तरभयात् तथा न प्रदर्शितास्तत पवावधार्याः। २५ अथानन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तधा कल्पने अष्टमवचनविकल्पपरिकल्पनमपि किं न क्रियत इति न वक्तव्यम् तत्परिकल्पननिमित्ताभावात् । तथाहि-न तावत् सावयवास्मकमन्योन्यनिमित्तकं तत् परिकल्पयितुं युक्तम् चतुर्थादिवचनविकल्पेषु तस्यान्तर्भावप्रसक्तः। नापि निरवयवात्मकमन्योन्यनिमित्तकं तत् परिकल्पनामहति प्रथमादिश्वन्तर्भावप्रसक्तेः। न च गत्यन्तरमस्तीति नाष्टमभङ्गपरिकल्पना युक्ता। किञ्च, असी क्रमेण वा तद्धर्मद्वयं प्रतिपादयेत्,३० योगपद्येन वा? प्रथमपक्षे गुणप्रधानभावेन तत्प्रतिपादने प्रथमद्वितीययोरन्तर्भावः प्रधानभावेन तत्प्रतिपादने चतुर्थे । योगपद्येन तत्प्रतिपादने तृतीये, भङ्गकसंयोगकल्पनया भङ्गान्तरकल्पनायां प्रथमद्वितीयभङ्गकसंयोगे चतुर्थभङ्गक एव प्रसज्यते, प्रथमतृतीयसंयोगात् पञ्चमप्रसक्तिः, द्वितीयतृतीयसंयोगात् षष्ठप्रसक्तिः, प्रथद्वितीयतृतीयसंयोगात् सप्तमः, प्रथमचतुर्थादिसंयोगकल्पनायां पुनरुक्तदोषः । तस्मान्न कश्चिदष्टमभङ्गसम्भव इत्युक्तन्यायात् वस्तुप्रतिपादने सप्तविध एव ३५ वचनमार्गः॥४०॥ १ "धर्म" द्वारेण-बृ० ल.टि.। २ “न हि अपरधर्म-इत्यादिभावना अत्रापि कार्या-" बृ. ल.टि.। सा च पृ० ४४६ पं० ३१। ३-मभङ्गप्र-आ० । ४ “प्रथम-द्वितीय-तृतीय"भङ्गब्युदासः-बृ० ल. टि.। ५ सप्तभङ्गा-वा. बा०।६-कमपरं निमित्तं तत् परि-बृ० ल• वा० बा०।

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516