Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 507
________________ ४४८ प्रथमे काण्डे[सप्तानां भङ्गानामर्थनये शब्दनये च यथासंभवं विभजनम्] अन्योन्यापरित्यागव्यवस्थितस्वरूपवाक्यनयानां शुद्ध्यशुद्धिविभागेन संग्रहादिव्यपदेशमासा. दयतां द्रव्यार्थिकपर्यायार्थिकनयावेव मूलाधार इति प्रदर्शनार्थमाह एवं सत्तवियप्पो वयणपहो होइ अत्यपज्जाए। वंजणपजाए उण सवियप्पो णिव्वियप्पो य ॥४१॥ एवं इत्यनन्तरोक्तप्रकारेण सप्तविकल्पः सप्तभेदः वचनमार्गो वचनपथः भवत्यर्थपर्याये अर्थनये संग्रह-व्यवहार-ऋजुमूत्रलक्षणे सप्ताप्यनन्तरोक्ता भङ्गका भवन्ति । तत्र प्रथमः संग्रहे सामान्यग्राहिणि, 'नास्ति' इत्ययं तु व्यवहारे विशेषग्रा हिणि, ऋजुमूत्र तृतीयः, चतुर्थः संग्रह-व्यवहारयोः, पञ्चमः संग्रह ऋजुत्रयोः, पष्टो व्यवहार ऋजुमृत्रयोः, सप्तमः संग्रह-व्यवहार-ऋजुसूत्रेषु । १०व्यञ्जनपोये शब्दनये सविकल्पः प्रथमे पर्यायशब्दवाच्यताविकल्पसद्भावेऽप्यर्थस्यैकत्वात् । द्वितीय तृतीययोनिर्विकल्पः द्रव्यार्थात् सामान्यलक्षणान्निर्गतपर्यायामिधायकत्वात् सममिरूढस्य पर्यायमेदभिन्नार्थत्वात् एवंभूतस्यापि विवक्षितक्रियाकालार्थत्वात् लिङ्ग-संज्ञा क्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वात्। शब्दादिषु तृतीयः, प्रथम-द्वितीयसंयोगे चतुर्थः तेष्वेव चानमिधेयसंयोगे पञ्चम-षष्ठ-सप्तमा वचनमागो भवन्ति । १५ अथवा प्रदर्शितस्वरूपा सप्तभङ्गी संग्रह-व्यवहार-ऋजुसूत्रेष्वेवार्थनयेषु भवतीत्याह-एवं सत्तवियप्पो इत्यादिगाथाम् । अस्यास्तात्पर्यार्थः अर्थनय एव सप्त भङ्गाः शब्दादिपु तु त्रिषु नयेषु प्रथम-द्वितीयावेव भङ्गो । यो ह्यर्थमाश्रित्य वक्तृस्थः संग्रह-व्यवहार-ऋजुसूत्राख्यः प्रत्ययः प्रादुर्भवति सोऽर्थनयः अर्थवशेन तदुत्पत्तेः अर्थ प्रधानतयासौ व्यवस्थापयतीति कृत्वा, शब्दं तु स्वप्रभवमुपसर्जनतया व्यवस्थापयति तत्प्रयोगस्य २० परार्थत्वात् । यस्तु श्रोतरि तच्छब्दश्रवणादुद्गच्छति शब्द-समभिरूढ-एवंभूताख्यः प्रत्ययस्तस्य शब्दः प्रधानम् तद्वशेन तदुत्पत्तः अर्थस्तूपसर्जनम् तदुत्पत्तावनिमित्तत्वात् स शब्दनय उच्यते । तत्र च वचनमार्गः सविकल्प-निर्विकल्पतया द्विविधः-सविकल्पं सामान्यम् निर्विकल्पः पर्यायः तदभिधानाद वचनमपि तथा व्यपदिश्यते । तत्र शब्द-समभिरुढी संज्ञा-क्रियामेदेऽप्यभिन्नमर्थ प्रतिपादयत इति तदभिप्रायेण सविकल्पो वचनमार्गः प्रथमभङ्गकरूपः। एवंभूतस्तु क्रियाभेदाद् २५भिन्नमेवार्थ तत्क्षणे प्रतिपादयतीति निर्विकल्पो द्वितीयभङ्गकरूपस्तद्वचनमार्गः। अवक्तव्यभङ्गकस्तु व्यञ्जननये न सम्भवत्येव यतः श्रोत्रभिप्रायो व्यञ्जननयः स च शब्दश्रवणादर्थ प्रतिपद्यते न शब्दाश्रवणात् अवक्तव्यं तु शब्दाभावविषय इति नावक्तव्यभङ्गका व्यञ्जनपर्याये सम्भवतीत्यभिप्रायवता व्यञ्जनपर्याये तु सविकल्प-निर्विकल्पौ प्रथमद्वितीयावेव भङ्गावभिहितावाचार्येण 'तु'शब्दस्य गाथायामेवकारार्थत्वात् ॥४१॥ [ केवलपर्यायार्थिकनयस्य मतमुपदर्य तस्यापूर्णत्वाभिधानम् ] इदानी परस्पररूपापरित्यागप्रवृत्तसंग्रहादिनयप्रादुर्भूततथाविधा एव वाक्यनयास्तथाविधार्थप्रतिपादका इत्येतत् प्रतिपाद्य अन्यथाभ्युपगमे तेषामप्यध्यक्षविरोधतोऽभाव एवेत्येतदुपदर्शनाय केवलानां तेषां तावन्मतमुपन्यस्यति १ "अस्तित्वनिषेधेन द्वितीयभङ्गस्य 'नास्ति'इत्यस्य प्रवृत्तः"-बृ० ल. टि.। २ त श-वृ०।३ तदुपपत्ते-बृ० वा. बा. विना । तदुप तदुपपत्ते-मां।

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516