Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 505
________________ प्रथमे काण्डेशब्दा अपि तथाभूता एव नैकान्ततः सावयवा उभयकान्तरूपा वा। तत्र विवक्षाकृतप्रधानभावसदाद्येकधर्मात्मकस्यापेक्षितापराशेषधर्मक्रोडीकृतस्य वाक्यार्थस्य स्यात्कारपदलाञ्छितवाक्यात् प्रतीतेः स्यादस्ति घटः १ स्यान्नास्ति घटः २ स्यादवक्तव्यो घटः ३ इत्येते त्रयो भङ्गाः सकलादेशाः। विवक्षाविरचितद्वित्रिधर्मानुरक्तस्य स्यात्कारपदसंसूचितसकलधर्मखभावस्य धर्मिणो वाक्यार्थरूपस्य ५प्रतिपत्तेश्चत्वारो वक्ष्यमाणका विकलादेशाः-स्यादस्ति च नास्ति घट इति प्रथमो विकलादेशः। स्यादस्ति चावक्तव्यश्च घट इति द्वितीयः २ । स्यात् नास्ति चाऽवक्तव्यश्च घट इति तृतीयः ३। स्यादस्ति च नास्ति चावक्तव्यश्च घट इति चतुर्थः ४।एत एव सप्त भङ्गाः स्यात्पदलाञ्छनविरहिणोऽवधा रणैकस्वभावा विषयाभावतो दुर्नया भवन्ति । धर्मान्तरोपादानप्रतिषेधाकरणात् स्वार्थमात्रप्रतिपा दनप्रयणा एते एव सुनयरूपतामासादयन्ति । स्यात्पदलाञ्छनविवक्षितकधर्मावधारणवशाद् वा १० सुनयाः सहव्यादेरेकदेशस्य व्यवहारनिबन्धनत्वेन विवक्षितत्वात् धर्मान्तरस्य चानिषिद्धत्वात् । अतः 'स्यादस्ति' इत्यादि प्रमाणम् 'अस्त्येव' इत्यादि दुर्नयः 'अस्ति' इत्यादिकः सुनयो नैनु (न तु) संव्यवहा. राङ्गम् 'स्यादस्त्येव' इत्यादिस्तु नय एव व्यवहारकारणं स्वपराव्यावृत्तवस्तुविषयप्रवर्तकवाक्यस्य व्यवहारकारणत्वात् अन्यथा तद्योगात् ॥ ३६॥ [चतुर्थभङ्गनिरूपणम् ] १५ एवं निरवयववाक्यस्वरूपं भङ्गकत्रयं प्रतिपाद्य सावयववाक्यरूपचतुर्थभङ्गक प्रतिपादयितुमाह अह देसो सभीवे देसोऽसम्भावपजवे णियओ।। तं दवियमत्थि णत्थि य आएसविसेसियं जम्हा ॥ ३७॥ अथ इति यदा देशो वस्तुनोऽवयवः सद्भावेऽस्तित्वे नियतः 'सन्नेवायम्' इत्येवं निश्चितः अपरश्च देशोऽसद्भावपर्याये-नास्तित्व एव-नियतः-'असन्नेवायम्' इत्यवगतः अवयवेभ्यो. २० ऽवयविनः कथञ्चिदभेदाद् अवयवधर्मेस्तस्यापि तथाव्यपदेशः यथा 'कुण्ठो देवदत्तः' इति । ततोऽवयवसत्त्वासत्त्वाभ्यामवयवी अपि सदसन् सम्भवति । ततः तद् द्रव्यमस्ति च नास्ति चेति भवत्युभयप्रधानावयवभागेन विशेषितं यस्मात् । तथाहि-यद् अवयवेन विशिष्टधर्मेण आदिश्यते तद् अस्ति च नास्ति च भवति । तथा, स्वद्रव्य-क्षेत्र-काल-भावैर्विभक्तो घटः स्वद्रव्यादिरूपेणास्ति परद्रव्यादिरूपेण च स एव नास्ति । तथा च पुरुषादि वस्तु विवक्षितपर्यायेण बालादिना २५ परिणतम् कुमारादिना चापरिणतमित्यादिष्टमिति योज्यम् ॥ ३७॥ [पञ्चमभङ्गप्रदर्शनम् ] पूर्वभङ्गकप्रदर्शितन्यायेन पञ्चमभङ्गकप्रदर्शनायाह सम्भावे आइटो देसो देसो य उभयहा जस्स । तं अस्थि अवत्तव्वं च होइ दविअं वियप्पवसा ॥ ३८॥ ३० सद्भावेऽस्तित्वे यस्य घटादेर्धर्मिणो दशो धर्म आदिष्टोऽवक्तव्यानुविद्धस्वभावे अन्यथा तदसत्त्वात् । न ह्यपरधर्माप्रविभक्ततामन्तरेण विवक्षितधर्मास्तित्वमस्य सम्भवति खरविषाणादेरिव । तस्यैवापरो देश उभयथा अस्तित्वनास्तित्वप्रकाराभ्यामेकदैव विवक्षितोऽस्तित्वानुविद्ध एवावक्तव्यस्वभावः अन्यथा तदसत्त्वप्रसक्तेः न ह्यस्तित्वाभावे उभयाविभक्तता शशशृङ्गादेरिव तस्य सम्भविनी, प्रथम-तृतीयकेवलभङ्गव्युदासस्तथाविवक्षावशादत्र कृतो द्रष्टव्यः तत्र प्रथम-तृती १-क्यार्थवरूप-आ०। २-भावात् दु-आ० । ३ न तु वृ० सं० । ४-त्यादिसुन-बृ० वा. विना ।स्यादिन-भां०। ५-रण स्व-बृ• • विना०। ६-ब्भावो बु. ल.। -द्भाव एव प-बृ० वा० बा० मा०। ८ पश्चममङ्गप्र-वृ. ल. वा. बा. विना। ९-इद्धो ल०। १० अव्वत्त-बृ० ल० । अवत्तयं च मा.बा..

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516