Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 509
________________ प्रथमे काण्डेण य होइ जोव्वणत्यो बालो अण्णो वि लज्जइ ण तेण । ण वि य अणागयवयगुणपसाहणं जुजइ विभत्ते ॥४४॥ न च भवति यौवनस्थः पुरुषो बालः अपि त्वन्य एव अन्योऽपि न लज्जते बालचरितेन पुरुषान्तरवत् 'तेनानन्यः। नाप्यनागतवृद्धावस्थायां सुखप्रसाधनार्थमुत्साहस्तस्य ५युज्यते अत्यन्ताभेदे । एतदेवाह-विभक्त इति विभक्तिर्भेदः। अकारप्रश्लेपाद् अविभक्ते मेदा. भावेऽविचलितस्वरूपतया तत्प्रसाधकगुणयनासम्भवात् । तस्मान्नाऽभेदमात्रं तत्त्वम् कथञ्चिद्भेदव्यवहृतिप्रतिभासवाधितत्वात् । नापि भेदमात्रम् एकत्वव्यवहारप्रतिपत्तिनिराकृतत्वादिति मेदा. मेदात्मकं तत्त्वमभ्युपगन्तव्यम् अन्यथा सकलव्यवहारोच्छेदप्रसक्तिः॥ १४ ॥ [ पुरुपदृष्टान्ते भेदाभेदात्मकत्वपरिणतिर्बाह्यप्रत्यक्षेण सिद्धति प्रदर्शनम् ] १० एवमभेदभेदात्मकस्य पुरुपतत्त्वम्य यथा अतीतानागतदोगुणनिन्दाभ्युपगमाभ्यां सम्बन्धः तथैव भेदाभेदात्मकस्य तस्य सम्बन्धादिभियोग इति दन्तदान्तिकोपसंहारार्थमाह जाइ-कुल-रूव-लश्रवण-सण्णा-संबंधओ अहिंगयस्स । बालाइभावदिविगयस्स जह तस्स संबंधो ॥ ४५ ॥ जातिः पुरुषत्वादिका, कुलं प्रतिनियतपुरुषजन्यत्वम् , रूपं चक्षुहित्विलक्षणम् , लक्षणं १५तिलकादि सुखादिसूचकम् , संज्ञा प्रतिनियतशब्दाभिधेयत्वम् , एभिर्यः सम्बन्धस्तदात्मपरिणामः ततस्तमाश्रित्य अधिगतस्य ज्ञानस्य ( ज्ञातस्य ) तदात्मकन्वेनाभिन्नावभासविषयस्य यद्वा सम्बन्धो जन्यजनकभावः एभिरधिगतस्य तत्स्वभावम्यैकात्मकस्यति यावत् बालादिभावैदृष्टैविगतस्य तैरुत्पाद विगमान्मकस्य तथाभेदप्रतीतेस्तस्य यथा तस्य सम्बन्धो भेदाभेदपरिणतिरूपो भेदाभेदात्मकत्वप्रतिपत्तेर्वाह्याध्यक्षतः ॥ ४५ ॥ २० [आध्यात्मिकप्रत्यक्षतोऽपि तत्र दृष्टान्ते यथा भेदाभेदात्मकत्वसिद्धिस्तथा दार्टान्तिके जीवेऽपि तद्योजनम् ] आध्यात्मिकाध्यक्षतोऽपि तथाप्रतीतेस्तथारूपं तद् वस्त्विति प्रतिपादयन्नाह दृष्टान्तदाWन्तिकोपसंहारद्वारेण तेहिं अतीताणागयदोसगुणदुगुंछणऽभुवगमेहिं । तह बंध-मोक्ख-सुह-दुक्खपत्थणा होइ जीवस्स ॥ ४६॥ ताभ्यामतीतानागतदोष-गुणजुगुप्साऽभ्युपगमाभ्यां यथा भेदाभेदात्मकस्य पुरु. षत्वस्य सिद्धिः तथा दान्तिकेऽपि तह बंध-मोक्ख-सुह-दुक्खपत्थणा होइ जीवस्स १"न चाप्यभेद एव इत्याह युवैव न च वृद्धोऽपि नान्यार्थ चेष्टनं च तत् । अन्वयादिमयं वस्तु तदभावोऽन्यथा भवेत्" ॥३०॥ "न च युवैव वृद्धोऽपि सर्वथा वृद्धपर्यायापन्न एव 'इदानीमयं युवा न वृद्धः' इतिप्रतीतेः। न च तत्काले तत्र यूनि तत्संतानीयवृद्धभेद एव यतः अन्यार्थ संतानान्तरवृद्धवत् न च चेष्टनं कायव्यापाररूपम्। तत् तस्मात् वस्तु अन्वयादिमयम् आदिना व्यतिरेकग्रहाद् अन्वय-व्यतिरेकशबलम् अन्यथा तदभावः अधिकृतवस्त्वभावो भवेत् सर्वथा असत्सद्भावविरोधात्" ॥३०॥ शास्त्रवा० समु. स्तब० ७, स्याद्वादक. पृ० २५८ प्र.। तेनान्यः वृ० ल. भां० मां० विना। ३ अत्यन्तमे-आ. हा. वि. विना। ४ हिययस्स बृ०। ५-ह्यत्वलक्षणं तिल-वा. बा० ।-ह्यत्वं लक्षणं तिल-ल. आ०। ६-रभिगतस्य लक्षणं तत्स्व-बृ०।-रवि तस्य लक्षणं तत्स्व-वा० बा।

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516