Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 503
________________ प्रथमे काण्डे - अथवा स्वीकृत प्रतिनियतप्रकारे तत्रैव नामादिके यः संस्थानादिः तत्स्वरूपेण घटः इतरेण चाघटइति प्रथम-द्वितीयौ, ताभ्यां युगपदभिधातुमशक्तेरवाच्यः । विवक्षितसंस्थानादिनेव यदीतरेणापि घटः स्याद् एकस्य सर्वघटात्मकत्वप्रसक्तिः अथ विवक्षितेनाप्यघटः पटादाविव घटार्थिनस्तत्राप्यप्रवृत्तिप्रसक्तिः । एकान्ताभ्युपगमेऽपि तथाभूतस्य प्रमाणाविषयत्वतोऽसत्त्वादवाच्यः ३ । ५ व स्वीकृत प्रतिनियन संस्थानादो मध्यावस्था निजं रूपम् कुशूल-कपालादिलक्षणे पूर्वोत्त रावस्थे अर्थान्तररूपम् ताभ्यां सदसत्त्वं प्रथम-द्वितीयौ । युगपत् ताभ्यामभिधातुमसामर्थ्याद् अवाच्यलक्षणस्तृतीयो भङ्गः । तथाहि - मध्यावस्थावदितरावस्थाभ्यामपि यदि घटः स्यात् तस्य अनाद्यनन्तत्वप्रसक्तिः अथ मध्यावस्थारूपेणाप्यघटः सर्वदा घटाभावप्रसक्तिः । एकान्तरूपत्वेऽप्ययमेव प्रसङ्ग इत्यसत्त्वादेव अवाच्यः ४ | ४४४ १० 'अथवा तस्मिन्नेव मध्यावस्थास्वरूपे वर्त्तमानाऽवर्त्तमानक्षणरूपतया सदसत्त्वात् प्रथम-द्वितीयभङ्गौ । ताभ्यां युगपदभिधातुमशक्तेरवाच्यलक्षणस्तृतीयः । तथाहि - यदि वर्त्तमानक्षणवत् पूर्वोत्तरक्षणयोरपि घटः स्यात् वर्त्तमानक्षणमात्रमेवासौ जातः पूर्वोत्तरयोर्वर्त्तमानताप्राप्तेः । न च वर्त्तमानक्षणमात्रमपि पूर्वोत्तरापेक्षस्य तदभावे अभावात् । अथातीतानागतक्षणवद् वर्त्तमानक्षणरूपतया अप्यघटः एवंसति सर्वदा तस्याभावप्रसक्तिः, एकान्तपक्षेऽप्ययमेव दोष इत्यभावादेव अवाच्यः ५ । यद्वा क्षणपरिणतिरूपे घटे लोचनजप्रतिपत्तिविषयत्वाविषयत्वाभ्यां निजार्थान्तरभूताभ्यां सदसत्वात् प्रथम-द्वितीयौ भङ्गौ । ताभ्यां युगपदादिष्टोऽवाच्यः । तथाहि - लोचनेज प्रतिपत्तिविषयत्वेनेव यदीन्द्रियान्तरजप्रतिपत्तिविषयत्वेनापि घटः स्यात् इन्द्रियान्तरकल्पनावैयर्थ्यप्रसक्तिः इन्द्रि यसङ्करप्रसक्तिश्च । अथेन्द्रियान्तरजप्रतिपत्तिविषयत्वेनेव चक्षुर्जप्रतिपत्तिविषयत्वेनापि न घटस्तर्हि तस्यारूपत्वप्रसक्तिः एकान्तवादेऽपि तदितराभावे तस्याप्यभावादवाच्य एव ६ । अथवा लोचनजप्रतिपत्तिविषये तस्मिन्नेव घटे 'घट' शब्दवाच्यता निजं रूपम् 'कुट' शब्दाभिधेयत्वमर्थान्तरभूतं रूपम् ताभ्यां सदसत्त्वात् प्रथम- द्वितीयौ । युगपत् ताभ्यामभिधातुमिष्टोऽवाच्यः । यदि हि 'घट' शब्दवाच्यत्वेनेव 'कुट' शब्दवाच्यत्वेनापि घटः स्यात् तर्हि त्रिजगत एकशब्दवाच्यताप्रसक्तिः घटस्य वाऽशेषपटादिशब्दवाच्यत्वप्रसक्तिरिति घटशब्दवाच्यत्वप्रतिपत्तौ समस्ततद्वाचकशब्दप्रतिपत्तिप्रसङ्गश्च । तथा घटशब्देनापि यद्यवाच्यः स्यात् घटशब्दोच्चारणवैयर्थ्यप्रसक्तिः । २५ एकान्ताभ्युपगमेऽपि घटस्यैवासत्त्वात् सङ्केतद्वारेणापि न तद्वाचकः कश्चित् शब्द इत्यवाच्य एव ७ । अथवा घटशब्दाभिधेये तत्रैव घटे हेयोपादेयान्तरङ्ग बहिरङ्गोपयोगानुपयोगरूपतया सदसत्त्वात् प्रथम-द्वितीयौ। ताभ्यां युगपदादिष्टोऽवाच्यः । यदि हि हेयवहिरङ्गानर्थक्रियाकार्यसन्निहित रूपेणाtयर्थक्रियाक्षमादिरूपेणेव घटः स्यात् पटादीनामपि घटत्वप्रसक्तिः तद्वद् यद्युपादेयसन्निहितादिरूपेणाप्यघटः स्यात् अन्तरङ्गस्य वक्तु श्रोतृगत हेतुफलभूत घटाकाराव बोध कविकल्पोपयोगस्याप्यभावे ३० घटस्याप्यभावप्रसङ्ग इत्यवाच्यः । एकान्ताभ्युपगमेऽप्ययमेव प्रसङ्ग इत्यवाच्यः ८ । तत्रैवोपयोगेऽभिमतार्थावबोधकत्वानभिमतार्थानवबोधकत्वतः सदसत्वात् प्रथमद्वितीयौ | ताभ्यां युगपदादिष्टोऽवाच्यः । विवक्षितार्थप्रतिपादकत्वेने वेतरेणापि यदि घटः स्यात् प्रतिनियतोपयोगाभावः तथाभ्युपगमे विविक्तरूपोपयोग प्रतिपत्तिर्न भवेत् । तदुपयोगरूपेणापि यद्यघटो भवेत् तदा सर्वाभावः अविशेषप्रसङ्गो वा । न चैवम् तथाऽप्रतीतेः । एकान्तपक्षेऽप्ययमेव ३५ प्रसङ्ग इत्यवाच्यः ९ । अथवा १५ २० अथवा सत्वम् असत्खं वा अर्थान्तरभूतम् निजं घटत्वम् ताभ्यां प्रथम-द्वितीयौ, अभेदेन ताभ्यां निर्दिष्टो घटोऽवक्तव्यो भवति । तथाहि - यदि सत्त्वमनूद्य घटत्वं विधीयते तदा सत्त्वस्य घटत्वेन व्याप्तेर्घटस्य सर्वगतत्वप्रसङ्गः तथाभ्युपगमे प्रतिभासबाधा व्यवहारविलोपश्च । तथा अस मनूद्य यदि घटत्वं विधीयते तर्हि प्रागभावादेश्चतुर्विधस्यापि घटेन व्याप्तेर्घटत्वप्रसङ्गः । अथ ४० घटत्वमनूद्य सदसत्त्वे विधीयेते तदा घटत्वं यत् तदेव सदसत्त्वे इति घटमात्रं सदसत्त्वे प्रसज्येते तथा च पटादीनां प्रागभावादीनां चाभावप्रसक्तिरिति प्राक्तनन्यायेन विशेषणविशेष्यलोपात् 'सन् घटः' इत्येवमवक्तव्यः 'असन् घटः' इत्येवमप्यवक्तव्यः । न चैतत्त ( चैकान्त ) तोऽवाच्यः अनेकान्तपक्षे तु कथञ्चिदवाच्य इति न कश्चिद् दोषः १० । १ कुसूल बृ० वा० बा० । २ " ताभ्यां सदसत्त्वात् " - शास्त्रवाः ३-न प्र-मां० । ४ " घटत्वेन " - शास्त्रवा० स्याद्वादक० पृ० २५२ प्र० पं० २। स्याद्वादक० पृ० २५१ प्र० पं० ८ | ५-नां वा भा-वृ० ल० मां० विना

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516