Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 500
________________ नयमीमांसा । ४४१ र्थनयः । अत्रापि विषयिणा विषयः ऋजुसूत्राद्यर्थनयविषयः अभिन्ने पुरुषरूपे भेदस्वरूपो निर्दिष्टः उपचारात् । एवं चाभिन्नं पुरुषवस्तु भेदं प्रतिपद्यत इति यावत् ॥ ३४ ॥ [वस्तुनोऽनेकान्तात्मकत्वेऽप्येकान्तरूपत्वं वदतोऽप्रमाणत्वख्यापनम् ] एवं निर्विकल्प-सविकल्पस्वरूपे प्रतिपाद्ये पुरुषादिवस्तुनि तद्विपर्ययेण तद् वस्तु प्रतिपादयन् वस्तुस्वरूपानवबोधं स्वात्मनि ख्यापयतीति दर्शनार्थमाह सवियप्प-णिव्वियप्पं इय पुरिसं जो भणेज अवियप्पं । सवियप्पमेव वा णिच्छएण ण स निच्छिओ समए ॥ ३५॥ सविकल्पनिर्विकल्पं स्यात्कारपदलाञ्छितं पुरुषद्रव्यं यः प्रतिपादकः तद् वस्तु यात् अविकल्पमेव सविकल्पमेव वा निश्चयेन इत्यवधारणेन स यथावस्थितवस्तुप्रतिपादने प्रस्तुते अन्यथाभूतं वस्तुतत्त्वं प्रतिपादयन् न निश्चित इति निश्चयो निश्चितम् तद् अस्यास्तीति २० निश्चितः-अर्शआदित्वात् अच्-समये परमार्थेन वस्तुसत्त्वस्य परिच्छेत्तेति यावत् । तथाहिप्रमाणपरिच्छिन्नं तथैवाविसंवादि वस्तु प्रतिपादयन् वस्तुनः प्रतिपादक इत्युच्यते । न च तथाभूतं वस्तु केनचित् कदाचित् प्रतिपन्नम् प्राप्यते वा येन तथाभूतं तद्वचस्तत्र प्रमाणं भवेत् तथा. भूतवचनामिधाता वा तज्ज्ञानं वा प्रमाणतया लोके व्यपदेशमासादयेत् ॥ ३५॥ [सप्तभङ्गीस्वरूपविचारणा ] परस्पराक्रान्तमेदाभेदात्मकस्य वस्तुनः कथञ्चित् सदसत्त्वमभिधाय तथा तदभिधायकस्य वचसः पुरुषस्यापि तदभिधानद्वारेण सम्यग्मिथ्यावादित्वं प्रतिपाद्य अधुना भावाभावविषयं तत्रैवैकान्तानेकान्तात्मकमंशं प्रतिपादयतो विवक्षया सुनय-दुर्नय-प्रमाणरूपतां तत्प्रतिपादकं वचो यथा अनुभवति तथा प्रपञ्चतः प्रतिपादयितुमाह यद्वा यथैव तद् वस्तु व्यवस्थितं तथैव वचनात् प्रतिपादयतो वक्तुनिपुणत्वं भवति अन्यथा २० साङ्ख्य-बौद्ध-कणभुजामिव अभिन्न-भिन्न-परस्परनिरपेक्षोभयवस्तुस्वरूपाभिधायिनाम् अर्हन्मतानुसारिणामपि 'स्यादस्ति' इत्यादिसप्तविकल्परूपतामनापन्नवर्चनं वक्तृणां स्यात्कारपदाऽलाञ्छितव. स्तुधर्म प्रतिपादयतामनिपुणता भवेदिति प्रपञ्चतः सप्तविकल्पोत्थाननिमित्तमुपदर्शयितुं गाथासमूहमाह अत्यंतरभूएहि य णियएहि य दोहि समयमाईहिं । १-त्रार्थन-आ०। २-षयेऽभि-वा. बा.। ३-यत् व-बृ० ल. विना। ४ अविअप्पं ल.। ५ अव-आ० । अत्-बृ०। अन्-मां० । अन-वा० बा० । “अर्शआदिभ्योऽच्" ॥ ५।२।१२७ । अं० १९३३ सिद्धान्तकौ० । “अभ्रादिभ्यः" । ७।२।४६। हैम०। ६ “एकान्तविकल्पादिरूपम्”-बृ० ल. टि.। ७-प्यते येन वृ० वा. बा. मां० विना। ८ यथा य-बृ०। ९-चनवक्तृ-भां० मा०।-चन क्तृ-वा. बा० । १. श्रीभगवतीसूत्रे सप्तभङ्गया बीजभूतवाक्यत्रयमेवमुपलभ्यतेः प्र.-"से नूर्ण भंते ! अत्थित्तं अत्थित्ते परिणमइ, नत्थित्तं नत्थित्ते परिणमद? उ०-हंता, गोयमा ! जाव परिणमई। इत्यादि-भगवती० श. १ उ०३ पृ. ५५ । प्रश्नसूत्रांक ३२ । प्र.-"आया भंते ! रयणप्पभा पुढवी अन्ना रयणप्पभा पुढवी ? उ.-गोयमा! रयणप्पभा सिय आया, सिय नोआया, सिय अवत्तव्वं आया ति य नो आया ति य"। इत्यादिभगवती० श० १२ उ० १० पृ० ५९२ द्वि०-५९४ द्वि० सूत्रांक ४६९ । अयं च भगवतीसूत्रगतोल्लेखः नयचक्रेऽपि ज्ञापकत्वेन इत्थं वर्णितः "भावः पर्यवः प्रवेशः समन्तात् अवः पर्यवः इति 'परि'शब्द(ब्दः) समन्तादर्थ(र्थः) 'अव'शब्दः प्रवेशार्थः। तद् वस्तुतो दर्शयति-समन्तात् प्रविशति एकताम् अन्यताम् उभयताम् अनुभयतां च योऽर्थः स पर्यवःxxx पर्यवे

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516