Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 499
________________ प्रथमे काण्डेयश्च 'कथं शब्दो वस्त्वन्तरत्वात् पुरुषादेर्वस्तुनो धर्मो येनासौ तस्य व्यञ्जनपर्यायो भवेत्' इत्युक्तम् तत्र नामनयाभिप्रायात् नाम-नामवतोरभेदात् 'पुरुष'शब्द एव पुरुषार्थस्य व्यञ्जनपर्यायः यद्वा 'पुरुष'इति शब्दो वाचको यस्यार्थगततद्वाच्यधर्मस्यासौ पुरुषशब्दः स चाभिधेयपरिणामरूपो व्यञ्जनपर्यायः कथं नार्थधर्मः? स च व्यञ्जनपर्यायः पुरुषोत्पत्तेरारभ्य आ पुरुषविनाशाद् भवति इति ५जन्मादिमरणसमयपर्यन्त उक्तः, तस्य तु बालादयः पर्याययोगा बहुविकल्पाः तस्य पुरुषाभिधेयपरिणामवतो बालकुमारादयस्तत्रोपलभ्यमाना अर्थपर्याया भवन्त्यनन्तरूपाः। एवं च पुरुषो व्यञ्जनपर्यायेणैकः बालादिभिस्त्वर्थपर्यायैरनेकः ॥ ३२ ॥ [पुरुषस्य भेदाभेदैकान्ताभ्युपगमे अभावरूपतापत्या दूषणम् ] यथा पुरुषस्तथा सर्व वस्त्वेकम् अनेकं वा सर्वस्य तथैवोपलब्धेः अन्यथाभ्युपगमे एकान्तर१० पमपि तन्न भवेदिति दर्शयन्नाह अस्थि त्ति णिव्वियप्पं पुरिसं जो भणइ पुरिसकालम्मि । सो बालाइवियप्पं न लहइ तुलं व पावेजा ॥ ३३ ॥ इति । 'अस्ति' इति एवं निर्विकल्पं निष्क्रान्ताशेषभेदस्वरूपं पुरुषम् एकरूपं पुरुषद्रव्यं यो १५ ब्रवीति पुरुषकाले पुरुषोत्पत्तिक्षण एव असौ बालादिभेदं न लभते बालादिभेदरूपतया नासौ स्वयमेव व्यवस्थितिं प्राप्नुयात् । नापि तद्रूपतया अपरमसौ पश्येत् । एवं चाभेदरूपमेव तत् पुरुषवस्तु प्रसज्येत । तुल्यं वा प्रामुयात्-तदप्यभेदरूपं बालादितुल्यतामेव अभावरूपतया प्राप्नुयात् भेदाऽप्रतीतावभेदस्याप्यप्रतीतेरभाव इति भावः। यद्वा 'अस्ति' इति एवं निर्विकल्पम्-निर्चितो विकल्पो भेदो यस्मिन् पुरुषद्रव्ये तद् निर्वि२.कल्पं भेदरूपं पुरुषं तत्स्वरूपलाभकाले भणति असौ बालादिविकल्पं न लभेत तुल्यम् इति द्व्यतुल्यतामेवासौ प्राप्नुयात् । अत्रापि पूर्ववत् तद्ग्रहे तद्ग्रहाद् भेदरूपताया अप्यभाव इति भावः । न चैवमेवास्त्विति वक्तव्यम् सर्वव्यवहारोच्छेदप्रसक्तेरिति भेदाभेदरूपमेव वस्त्वस्तु ॥३३॥ [पुरुषे शब्दार्थ-पर्यायाभ्यां भेदाभेदरूपत्वस्य व्यवस्थापनम् ] अस्यैवोपसंहारार्थमाह वंजणपजायस्स उ पुरिसो 'पुरिसो' त्ति णिच्चमवियप्पो। बालाइवियप्पं पुण पासइ से अस्थपन्जाओ ॥ ३४॥ शब्दपर्यायेणाऽविकल्पः पुरुषः बालादिना त्वर्थपर्यायेण सविकल्पः सिद्ध इति गाथातात्पर्यार्थः। "व्यञ्जयति व्यनक्ति वाऽर्थानिति व्यञ्जनम्-शब्दः न पुनः शब्दनयः तस्य ऋजुसूत्रार्थनयविषयत्वात्” इति केचित्-तस्य पर्यायः आ जन्मनोमरणान्तं यावदभिन्नस्वरूपपुरुषद्रव्यप्रतिपादकत्वम् ३० तेद्वशेन तत्प्रतिपाद्यं वस्तुस्वरूपमत्र ग्राह्यम् उपचारात् एवं च द्वितयमप्येतत् 'पुरुषः पुरुषः इति __ अभेदरूपतया न भिद्यते-व्यञ्जनपर्यायमतेन पुरुषवस्तु सदा अविकल्पम् भेदं न प्रतिपद्यत इति यावत् । बालादिविकल्पं बालादिमेदं पुनस्तस्यैव पश्यति अर्थपर्यायः ऋजुसूत्राद्य १पृ० ४३१५०१३। २-च्यस्य ध-वृ०।३दिौरण-बृ० वा. बा०। ४ यथा गुरुवस्त-बृ०। ५-वस्वरू-आ०। ६-श्चिनोति वि-भां• मां०। ७ "अभेदतुल्यताम्"-बृ. ल. टि.। ८ “यथा अमेदरूपता नास्ति तन्मते तथा भेदरूपताऽपि न स्यात् अमेदाभावे भेदावस्थानाभावातू"-बृ० ल.टि.। ९ "शब्द"वशेनवृ. ल. टि.। १० पुरुषः-आ०। ११ “पुरुषवस्तुनः"-वृ० टि.। १२ अर्थप्राय: ल.।

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516