Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 497
________________ प्रथमे काण्डे - यत्रार्थस्तत्र धर्मिणि शब्दस्याऽवृत्तेः गोपिण्डाधारेण प्रदेशेन शब्दस्याश्रयाश्रयिभावस्य जन्यजनकभावनिबन्धनस्याभावात् अतः 'गोपिण्डवानयं देशः गोशब्दवत्त्वात्' इति नाभिधातुं शक्यम् । नापि गोपिण्डे गोशब्दो वर्त्तते आधाराधेयवृत्त्या जन्यजनकभावेन वा गोपिण्डाभावेऽपि गोशब्दस्य दर्शनात् । न च गम्यगमकभावेन तंत्रासौ वर्तते पक्षधर्मत्वाभावे तस्यैवानुपपत्तेः वाच्यवाचकभावेन वृत्तावनुमा५ नात् प्रमाणान्तरत्वम् । तेन 'गोपिण्डो गोत्ववान् गोशब्दवत्त्वात्' अयमपि प्रयोगोऽनुपपन्न एवै । नापि गोत्रे गोपिण्डविशेषणे वर्त्तते तत् सामान्येनाश्रयाश्रयिभावस्य जन्यजनकभावस्य वा अस्याभावात् । अतः 'गोत्वं गोपिण्डवत् गोशब्दवत्त्वात्' इत्यपि वक्तुमशक्यम् । विशेषे च साध्ये अनन्वयश्चात्र पक्ष दोषः । न च ' गोशब्दो गवार्थवान् गोशब्दत्वात्' इति प्रयोगो युक्तः तथाप्रतीत्यभावात् । न हि 'गौर्गच्छति' इत्युक्ते गमनक्रियाविशिष्टगवार्थप्रतीतिमन्तरेण गोपिण्डेन तद्वान् शब्दो लोकेनावगम्यते, न च गोशब्दो गवार्थवाचकत्वेन गोशब्दत्वाद् अनुमीयते किन्तु गवार्थप्रतिपत्यन्यथानुपपत्त्या गवार्थवाचकत्वं तस्य गम्यते । प्रतिनियतपदार्थनिवेशिनां तु देवदत्तादिशब्दानां नान्वयः नापि १० ४३८ निराकृतं पक्षधर्मत्वम्, सपक्षान्वयमिदानीं दूपयति अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते । व्यापारेण हि सर्वेषामन्वितत्वं प्रतीयते ॥ ६८-८८ यत्र धूमोऽस्ति तत्राग्रस्तित्वेनाऽन्वयः स्फुटः । न त्वेवं यत्र शब्दोऽस्ति तत्राऽर्थोऽस्तीति निश्चयः ॥ न तावत्तत्र देशेऽसौ तत्काले वाऽवगम्यते । भवेन्नित्यविभुत्वाच्चत्सर्वार्थेषु च तत्समम् ॥ तेन सर्वत्र दृष्टत्वाद् व्यतिरेकस्य चाऽगतेः । सर्वशब्दैरशेषार्थप्रतिपत्तिः प्रसज्यते" ॥ " ननु ये ज्ञातसम्बन्धास्तेषां दृष्टोऽन्वयः स्फुटः । यद्येवमन्वयात् पूर्व संबन्धः कोऽपि कल्पितः ॥ नाऽङ्गमर्थधियामेषा भवेदन्वयकल्पना । अन्वयाऽधीनजन्मत्वमनुमानस्य च स्थितम् ॥ ज्ञाते प्रतीतिसामर्थ्य तद्वशादेव जायते । पश्चादन्वय इत्येष कारणं कथमुच्यते ॥ तस्मात्तनिरपेक्षैव शब्दशक्तिः प्रतीयते । न च धूमाऽन्वयात् पूर्व शक्तत्वमवगम्यते ॥ व्यतिरेकोऽप्यविज्ञातादर्थाच्छन्दधियो यदि । सोऽपि पश्चात् स्थितत्वेन नाऽर्थप्रत्ययसाधनम् ॥ सम्बन्धं यं तु वक्ष्यामस्तस्य निर्णयकारणम् । स्यादन्वयोऽतिरेकश्च न त्वर्थाऽधिगमस्य तौ ॥ तदिदं लक्षण्यभावेन विषयभेदेन चोपपादितम् अननुमानत्वं प्रयोगेण दर्शयति तस्मादननुमानत्वं शब्दे प्रत्यक्षवद् भवेत् । त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् ॥ ९२-९८ " प्रमिते च प्रवृत्तत्वात् स्मृतेर्नास्ति प्रमाणता । परिच्छेदफलत्वाद्धि प्रामाण्यमुपजायते ॥ तादात्विक परिच्छेदफलत्वेन प्रमाणता । प्रत्यभिज्ञानवत् कस्मात् स्मृतेरपि न कल्प्यते ॥ यावान् पूर्वपरिच्छिन्नस्तावानेवावधार्यते । स्मृत्या तदनुसारेण तदाऽसत्त्वेऽस्य नैव धीः " ॥ -१०४-१०६ श्लो० वा० शब्दप० पार्थ० व्या० पृ० ४२४, ४२६, ४२७, ४३० । " शब्दज्ञानात् परोक्षार्थज्ञानं शाब्दं परे जगुः । तञ्चाकर्तृकतो वाक्यात् तथाप्रत्ययिनोदितात् ॥ इदं च किल नाध्यक्षं परोक्षविषयत्वतः । नानुमानं च घटते तल्लक्षणवियोगतः ॥ धर्मी धर्मविशिष्टो हि लिङ्गीत्येतत् सुनिश्चितम् । न भवेदनुमानं च यावत् तद्विषयं न तत् ॥ यश्चात्र कल्प्यते धर्मी प्रमेयोऽस्य स एव च । न चानवधृते तस्मिंस्तद्धर्मत्वावधारणा ॥ प्राक् स चेत् पक्षधर्मत्वाद् गृहीतः किं ततः परम् । पक्षधर्मादिभिर्ज्ञातैर्येन स्यादनुमानता ॥ अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते । व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते ॥ यत्र धूमोऽस्ति तत्राने रस्तित्वेनान्वयः स्फुटम् । नत्वेवं यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चितम् ॥ न तावत् तत्र देशेऽसौ न तत्काले च गम्यते । भवेन्नित्यविभुत्वाच्चेत् सर्वशब्देषु तत्समम् ॥ तेन सर्वत्र दृष्टत्वाद्यतिरेकस्य चागतेः । सर्वशब्दैरशेषार्थप्रतिपत्तिः प्रसज्यते ॥ तस्मादननुमानत्वं शाब्दे प्रत्यक्षवद् भवेत् । त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् " ॥ - तत्त्वसं ० का ० १४८९ - १४९८ पृ० ४३३-४३५ । स्याद्वादर० पृ० १३४ द्वि० पं० ७ पृ० १३५ द्वि० पं० ७ । १ तत्र “गोपिण्डे” असौ " गोशब्दः " - बृ० ल० टि० । २-रत्वेन गो- बृ० । गमकभावेन, आहोखित् वाच्यवाचकभावेन ? पक्षद्वये दूषणमुक्तम्" - बृ० ल० टि० । ५ गोशब्दो गवार्थगोशब्दः गवार्थगोशब्दत्वात् भ० मां० । ३ “ यतः गोशब्दवत्त्वं गम्य४ साध्येऽन्व - वा० बा० ।

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516