Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 495
________________ प्रथमे काण्डे - इत्याद्यभिधानात् । नापि नित्या स्फोटपक्षोदितंसमस्त दोषप्रसक्तेः । न च वैदिकवर्णाद्यानुपूर्वी नित्या, लौकिकतदानुपूर्व्यविशेषात् । तथा हि-वैदिकवर्णाद्यानुपूर्वी अनित्या, वेदानुपूर्वीशब्दवाच्यत्वात् लौकिकवर्णाद्यानुपूर्वीवत् । न च लौकिकानुपूर्व्या विलक्षणेयम्, वैलक्षण्यासिद्धेः । तथाहिकिमपौरुषेयत्वमस्या वैलक्षण्यम्, आहोखिद् विचित्ररूपता ? न तावदाद्यः पक्षः अपौरुषेयत्वस्य ५ निरस्तत्त्वात् । नापि वैचित्र्यम् तस्यानित्यत्वेनाऽविरोधात् तत्सद्भावेऽपि नित्यत्वाप्रसाधकत्वात् लौकिकवाक्येष्वपि वैचित्र्यस्योपलब्धेश्व | न च वर्णानां नित्यव्यापिनामानुपूर्वी सम्भवति, देश - कालकृतक्रमानुपपत्तेः । न चाभिव्यक्त्यानुपूर्वी तेषां सम्भविनी अभिव्यक्तेः प्राग् निर स्तत्वात् । 'पूर्ववर्णसंवित्प्रभवसंस्कारसहितः तत्स्मृतिसहितो वा अन्त्यो वर्णः पदम्' इत्यभ्युपगमोsपि न युक्तिसङ्गतः संस्कार स्मरणादेरनुपलभ्यमानस्य तदा सहकारित्वकल्पनायां १० प्रमाणाभावात् । न चार्थप्रतिपत्त्यन्यथानुपपत्तिस्तत्कल्पनायां प्रमाणम्, तत्प्रतिपत्तेरन्यथा सिद्धत्वात् । न चानुपूर्वीसम्भवेऽपि परपक्षे वर्णा अर्थप्रतीतिहेतुतया सम्भवन्ति तेषां तत्प्रतिपत्तिजननस्वभाव सर्वदा तत्प्रतिपत्तिप्रसक्तेः तज्जननस्वभावस्य सर्वदा भावात् अतजननस्वभावत्वे न कदाचिदप्यर्थप्रतिपत्तिं जनयेयुः अनपगताऽतज्जननस्वभावत्वात् । न च सहकारिसन्निधानेऽपि तेषामतज्जननस्वभावती व्यपगच्छति अनित्यताप्रसक्तिदोषापत्तेः 'नित्याश्च' परैस्ते अभ्युपगता इत्य१५भ्युपगमविरोधश्च । ४३६ [ वाच्य-वाचकयोः सम्बन्धस्य नित्यत्वं निषिध्य तस्य कृतकत्वव्यवस्थापनम् ] न च नित्यसम्बन्धवादिनस्तदपेक्षा वर्णा अर्थप्रत्यायकाः सम्भवन्ति, नित्यस्यानुपकारकत्वेनाऽपेक्षणीयत्वायोगात् । न च नित्यः सम्बन्धः शब्दार्थयोः प्रमाणेना वसीयते प्रत्यक्षेण तस्य अननुभवात् । तदभावे नानुमानेनापि तस्य तत्पूर्वकत्वाभ्युपगमात् । न च शब्दार्थयोः स्वाभाविकस२० म्बन्धमन्तरेण गोशब्दश्रवणानन्तरं ककुदादिमदर्थप्रतिपत्तिर्न भवेत् अस्ति च स इति शब्दस्य वाचिका शक्तिरवगम्यत इति वाच्यम्, अनवगतसम्बन्धस्यापि ततस्तदर्थप्रतिपत्तिप्रसक्तेः । न च सङ्केताभिव्यक्तः स्वाभाविकः सम्बन्धोऽर्थप्रतिपत्तिं जनयतीति नायं दोषः सङ्केतादेव अर्थप्रतिपत्तेः स्वाभाविकसम्बन्धपरिकल्पना वैयर्थ्यप्रसक्तेः । तथाहि - सङ्केताद् व्युत्पाद्याः 'अनेन शब्देनेत्थम्भूतमर्थ व्यवहारिणः प्रतिपादयन्ति' इत्यवगत्य व्यवहारकाले पुनस्तथाभूतशब्दश्रवणात् सङ्केतस्मरणे तत्स२५ दृशं तं चार्थ प्रतिपद्यन्ते न पुनः स्वाभाविकं सम्बन्धमवगत्य पुनस्तत्स्मरणे अर्थमवगच्छन्ति । नच वाच्य - वाचर्कैसङ्केतकरणे स्वाभाविकसम्बन्धमन्तरेणानवस्थाप्रसक्तिः वृद्धव्यवहारात् प्रभूतशब्दानां वाच्यवाचकस्वरूपावधारणात् । तथाहि —एको व्युत्पन्नव्यवहारः तथाभूताय 'गामभ्याज शुक्लां देवदत्त ! दण्डेन' इति यदा व्यपदिशति द्वितीयस्तु तद्यपदेशानन्तरं तथैव विदधाति तदा अव्युत्पन्नसङ्केतः शिशुस्तं तथाकुर्वाणमुपलभ्यैवमवधारयति - 'अनेन गोशब्दाद् गवार्थः प्रतिपन्नः अभ्याजादिशब्दाद् अभ्याजिक्रियादिकः अन्यथा कथमपरनिमित्ताभावेऽपि गोपिण्डाऽऽनयनादिकं 'वाक्यश्रवणानन्तरं विदध्यात्' एवमपोद्धारकल्पनया अव्युत्पन्नानां सङ्केतग्रहणसम्भवान्नानवस्थादोषः । न च प्रथमसङ्केतविधायिनः स्वाभाविकसम्बन्धव्यतिरेकेण वाच्य वाचकयोः कुतो वाच्यवाचकरूपावगतिरिति वक्तव्यम्, अनादित्वादस्य व्यवहारस्य अपरापरसङ्केतविधायिपूर्वकत्वेन निर्दोपत्वात् । न च वाच्यवाचकसम्बन्धस्य पुरुषकृतत्वे शब्दवदर्थस्यापि वाचकत्वम् अर्थवच्छब्दस्यापि वाच्यत्वं प्रसक्तमिति वक्तव्यम्, योग्यताऽनतिक्रमेण सङ्केतकरणात् । न च स्वाभाविकसम्बन्धव्य ३५ ३० १ पृ० ४३४ पं० २ । २ - त्या तदा - बृ० विना । ३ पृ० ३३ पं० २५ । ४ " नित्यवर्णानाम् ” - बृ० टि० । ५ पृ० ३४ पं० ३३ । ६- पत्तिस्तत्प्रकल्प - बृ० वा० बा० । ७ तद् "संस्कारस्मरणादि" - बृ० टि० । ८-भावसा सर्व-वा० बा० । - भावः सर्व - बृ० । ९वत्वे न सर्वदा कदा भां० म० । १०-ता व्युपमां० । ताभ्युप - बृ० वा० बा० । ११ “नित्यसंबन्धापेक्षा : " - बृ० टि० । १२ - कारत्वेना-भां० मां० । १३ “ अनुमानस्य " - बृ० टि० । १४ " अर्थप्रतिपत्तिः " - बृ० टि० । १५ तं वार्थ बृ० वा० बा० । बन्धकर - भ० मां० । १६-कसं

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516