Book Title: Sanmatitarka Prakaranam Part 1
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

Previous | Next

Page 494
________________ नयमीमांसा। इति न तत्परिकल्पना ज्यायसी । यदपि 'प्रत्यभिज्ञाज्ञानं स्फोटस्य नित्यत्वप्रसाधकं वर्णोच्चारणात् प्रागप्यस्तित्वमवबोधयति' इत्यभ्युपगतम् तदपि-प्रत्यभिज्ञाज्ञानस्य सादृश्यनिबन्धनत्वेनात्र विषये प्रतिपादितत्वात्-असङ्गतम् ; एकगोव्यक्तौ संकेतितात् गोशब्दात् गोव्यक्त्यन्तरे अन्यत्रान्यदा च नित्यत्वमन्तरेणापि प्रतिपत्तियथा सम्भवति तथा प्रतिपादितम् प्रतिपादयिष्यते च । नातोऽपि स्फोटस्य प्राग् व्यञ्जकात् सत्त्वसिद्धिरिति । "नादेनाऽऽहितबीजायामन्त्येन ध्वनिना सह । आवृत्तपरिपाकायां बुद्धौ शब्दोऽवभासते ॥” [वाक्यप० प्र० का० श्लो० ८५] इति भर्तृहरिवचो निरस्तं द्रष्टव्यम् ।। यदपि 'विभिन्नतनुषु वर्णेष्वभिन्नाकारं श्रोत्रान्वयव्यतिरेकानुविधाय्यध्यक्ष स्फोटसद्भावमवबोधयति' इत्युक्तम् तदप्यसारम् ; घटादिशब्देषु परस्परव्यावृत्तानेकवर्णव्यतिरिक्तस्य स्फोटात्मनो-१० ऽर्थप्रत्यायकस्यैकस्याध्यक्षप्रतिपत्तिविषयत्वेनाप्रतिभासनात् । न चाभिन्नावभासमात्राद अभिन्नार्थव्यवस्था, अन्यथा दूराद् अविरलाने कतरुष्वेकतरुवुद्धेरेकत्वव्यवस्थाप्रसक्तेः न चाविरलानेकतरुष्वेकत्वबुद्धेर्बाध्यमानत्वात् नैकत्वव्यवस्थापकत्वम् स्फोटप्रतिभासबुद्धेरपि बाध्यत्वस्य दर्शितत्वात् । न चैकत्वावभासः स्फोटसद्भावमन्तरेणानुपपन्नः, वर्णत्वान्त्यवर्णविषयत्वेनाप्येकत्वावभासस्योपपद्यमानत्वात् निरवयवस्याक्रमस्य नित्यत्वादिधर्मोपेतस्य स्फोटस्यैकावभासज्ञानेनाननुभवात् अन्यथावभा-१५ सस्य चान्यथाभूतार्थाव्यवस्थापकत्वात् व्यवस्थापनेऽतिप्रसङ्गात् अवयवि द्रव्यं त्ववयवजन्यत्वेन तदाश्रितत्वेन चाध्यक्षप्रत्यये प्रतिभासत इति न तच्यायः स्फोटे उत्पादयितुं शक्यः। तन्न स्फोटात्मा शब्दो वर्णेभ्यो व्यतिरिक्तः। अथ तदव्यतिरिक्तोऽसावभ्युपगम्यते तदा वर्णनानात्वे तन्नानात्वप्रसक्तिः तदेकत्वे वा वर्णानामप्येकत्वप्रसक्तिः। [सानुपूर्विकनित्यवर्णवाचकत्वपरं मीमांसकमतमुपन्यस्य तन्निरसनम् ] २० अथ गकाराद्यानुपूर्वीविशिष्टोऽन्त्यो वर्णः विशिष्टानुपूर्वीका वा गकारौकारविसर्जनीयाः शब्दः। तथा च मीमांसकाः प्राहु: "यावन्तो यादृशा ये च यदर्थप्रतिपादकाः। वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवाववोधकाः ॥" [श्लो० वा० स्फोटवा० श्लो० ६९] इति। २५ एतदपि न सम्यक्; यतः आनुपूर्वी यद्यनर्थान्तरभूता तदा वर्णा एव नानुपूर्वी, ते च व्यस्ताः समस्ता वा अर्थप्रत्यायका न भवन्तीत्यावेदितम् । अथार्थान्तरभूता तदा वक्तव्यम सा नित्या. अनित्या वा? न तावदनित्या स्वसिद्धान्तविरोधात्-वैदिकानुपूर्व्या नित्यत्वेनाभ्युपगमात् । "वक्ता नहि क्रम कश्चित् स्वातन्येण प्रपद्यते ।" [श्लो० वा० शब्दनित्य० श्लो० २८८] १ "किश्च शब्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञया । विभुत्वं च स्थितं तस्य कोऽध्यवस्येद् विपर्ययम्"। "तस्माद्वा सर्वकालेषु सर्वदेशेषु चैकता। प्रत्यक्षप्रत्यभिज्ञानप्रसिद्धा साऽस्य बाधिका" ॥ तत्त्वसं० का० २११७-२११८ पृ. ५९०-५९१ । २ तत्त्वसं० पृ. ७२२ का० २७११ । प्रमेयक० पृ. १३३ द्वि० पं०३ । “बुद्धौ शब्दोऽवधार्यते"-वाक्यप। तत्त्वसं० पजि० पृ. ६३६ पं०७। स्याद्वादर० पृ. ३१९ प्र. पं. ५ । सर्वदर्शनसं० द. १३ पं० १८९ पृ० ३०३। ३ "दूरदेशावस्थितस्य हि विरलपदार्थस्य घनरूपताप्रतीतिः उत्तरकालभाविबलिष्ठविरलरूपताप्रत्ययेन बाध्यत इति तत्र घनत्वप्रतीतिवशाद् व्यवस्थाप्यमानं घनत्वमस्तु अवास्तवम्" इत्यादिकं स्फोटप्रतिविधानावसरे-स्याद्वादर० प्र० ३२३ प्र. पं०८। "यथा हि दूरे दृश्यन्ते तरवः करिरूपिणः । (पूर्व पश्चाच) तत्रस्थैस्त एव तहरूपिणः" ॥ १५९॥ "दर्शनाहितसंस्कारक्रमादेवमिहापि ते। नादास्तत्त्वपरिच्छेदे विपर्यासेऽपि कारिणः (१)॥ १६॥ स्फोटसि० पृ. १८-१९ । ४ यदर्थप्रतिपादने-गुणग्रन्थे संस्कार. प्रशस्त० के० पृ० २७० पं. १८। “तदुक्तं तौतातितैः” इति कृत्वा निर्दिष्टोऽयं श्लोकः-सर्वदर्शनसं० द. १३ पं० १६४ पृ० ३०२। ५ पृ. ४३१ पं० १७॥ ६ “आनुपूर्वी"-बृ. ल. टि०। ७ कंचित् श्लो. वा।

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516